________________ प्रथमोऽध्यायः द्वितीयः पादः 41 (119) भ्यास्या / [1 / 2 / 13 / 5 / ] भ्य् जसि परे डा स्यात् / नराभ्याम् 3 / नराय / नराः / असासक् / (120) ङित्यात्स्येत् / [1 / 2 / 13 / 6 / ] अतः परो ङित् क्रमेण त्या आत्, तस्य इत् स्यात् / तित् परार्थः / धनाय / अतिजरसात् / धनस्य / धने / (121) सर्वादेः तित् स्मैस्मात्स्मिन् / [1 / 2 / 137] सर्वादेरतः ङितादेरादेशो यथास्थानं स्मै स्मात् स्मिन् स्यात् / सर्वस्मै / सर्वस्मात् / सर्वस्मिन् / तित् किम् ? सर्वस्य / अस्मिन् वृत्तषट्पद्याह - सर्वोभयोभोडतरान्यत्वत्वत् सिमान्यविश्वान्यतरत्वनेम / परस्परान्योन्यतथैतरेरच् एकैकपूर्वापरदक्षिणावर- // 1 // परोत्तरे वाऽधरचाववावपू: बाह्योपसंव्यान इहान्तरोऽधनज्ञाताविह स्व त्यदि तद्यदाविदं एषोऽदसेकस्विरु युष्मदस्मद् भवत्वथो किं लिहनाप्रधानं द्वन्द्वाभिधानेऽपि षट्पदीयम् // 2 // डप् डतमडतरप् प्रत्ययान्ताऽत्र त्वत् समुच्चयार्थः / त्व अन्यार्थः / समसिमौ सर्वार्थौ / नेमोऽर्धार्थश्च / सप्त पूर्वादयोऽवधौ मर्यादायां, नाभिधान इति / वचनादसंज्ञायाम् / अवधौ किम् ? दक्षिणा गाथकाः प्रवीणा इत्यर्थः / नाम्नि / उत्तराः कुरवः / पूर्वजितबाह्योपसंव्यानेऽर्थे / अन्तरे गृहाः / बाह्या इत्यर्थः / उपसंव्याने परिधानीये / अन्तरस्मिन् शाटके / अनयोः किम् ? अन्तरे मध्ये इत्यर्थः / अपूः किम् ? अन्तरायां पुरि / बाह्यायामित्यर्थः / स्वे पुत्राः / स्वे गावः / अधन ज्ञातौ किम् ? प्रभूताः स्वाः दीयन्ते / धनानीत्यर्थः / एते मे स्वाः ज्ञातयः इत्यर्थः / तत्पर्यायः / दपूर्व दित्यर्थः / त्यदिच्छन्दोर्थम् / एषोऽपि एतद् स्वन्तः / एकस्सर्वमित्यर्थः / द्विर् त्यरित्यर्थ भवतु उदित् / किल, / सर्वलित्यर्थः / प्रागितरच् परजित्यर्थः / सर्वाधुक्तोऽपि न स्यादप्रधानादि / .प्रियविश्वाय / कतरकतमाय / नाम्ना विश्वाय / (122) जः शी / [1 / 2 / 13 / 8 / ] सर्वाद्यतः जस् शिदीत् स्यात् / सर्वे / (123) अल्पादेः / [1 / 2 / 13 / 9 / ] परो वाऽत्र अल्पाद्यतो जः शी वा स्यात् / अल्पे / अल्पाः / अप्राप्ते वा / नेमात प्राप्ते सर्वाद्यन्तश्चार्थः / कतरकतमाः / कतरकतमे / दत्तकतमे / अनुष्टुबत्र अल्पकतिपयनेमाः प्रथमचरमे तथा / तयाल्पार्धानिचार्थश्च सर्वाद्यन्त इहोच्यते // (124) पूर्वाद्वाऽदौ / [1 / 2 / 13 / 10 / ] पूर्वादि नवस्वदन्तः सर्वादि वा स्याद् उक्तेऽदौऽत् इपरे / जसि डसौ डौ परे / पूर्वे / पूर्वाः / पूर्वस्मान् / पूर्वस्मिन् / पूर्वे / पूर्वात् किम् ? सर्वे / अन्ये / अदौ किम् ? पूर्वस्मै / पूर्वस्यै / (125) तीयादिग्डि / [1 / 2 / 13 / 11 / ] तीयप्रत्ययान्तः, अदिक् च सादृश्याद् * पञ्च.-६