________________ 40 पञ्चग्रन्थी व्याकरणम् काष्ठधग्भ्याम् / गोधुक् / गोधुग्भ्याम् / तौ च, धक्ष्यति / दोग्धा / पदान्ते किम् ? काष्ठदौ / (111) वा द्रुहाम् / [1 / 2 / 12 / 9 / ] तथा ह घ स्याद् वा / मित्रधृक् / मित्रधुग्भ्याम् / मित्रधृट् / मित्रधृड्भ्याम् / स्तो, ध्रोक्ष्यति / द्रोग्धा / द्रोढा / एवं मुहष्णुहष्णिहाम् / द्वौ मृदुहादी तु अनुष्टुभाऽऽह मृज्वश्चभ्रस्जयज्राजमृजिभ्राजच्छशां गणः / चत्वारोऽत्र दुहाद्यास्तु द्रुहमुहस्नुहस्निहः // 1 // ट् / धातोर्ह तथा ट् स्यात् त वाऽसत्परेऽके / मधुलिट् / लेक्ष्यति / लेढा / ढित् ढ ढे। ढनिमित्ते ढे परे हो ढ इल्लुक् स्यात् / लीढम् / मूढम् / लेढा / ढ ढे किम् ? स्वलिड्डौकते / (112) स्वा ढुः / [ 1 / 2 / 12 / 10 / ] सवोरः स्व, ततः परो हो ढ इत् स्यात् ढढे परे / सोढा / वोढा / युक्तस्य / पदान्तस्थसंयोगान्तस्यान्त इत् स्यात् / श्रेयान् / पुंभिः / विधानान्नेह, भवाञ्छेते / पदान्ते किम् ? श्रेयांसौ / (113) लः का / [1 / 2 / 12 / 11 / ] केन रेण च लादेशसंयोगस्य पदान्तस्थस्येत् स्यात् / अजो गर्भवान् / का किम् ? भूपान् / न क्सादीन् / सरा / रेण संयोगे स एव पदान्तस्थ इत् स्यात् / कटचिकीः / सः किम् ? उर्छ / क्सादि च / पदान्तसंयोगस्य क्स्-आदिभूतम् इत् स्यात् / चकारात् स्तौ च / तक्ष / काष्ठतक् काष्ठतग्भ्याम् / मस्ज / साधुमक् / साधुमग्भ्याम् / तक्ष्यति / तष्टा / मंक्ष्यति / (114) सुब्विधौ / [1 / 2 / 12 / 12 / ] न् पदान्तस्थ इत् स्यात् / तस्थास्त्रं च सुपि सुपो वा विधौ प्रवर्तमाने असत् स्यात् / वृत्रहभ्याम् / राजसु / राजा पंच / सुब्विधौ किम् ? राजायते / तस्मिन् कुर्वीरन् विधानो नेत् / असदिति निवृत्तम् // 12 // टेनातो भ्यै झः कात् स्सुभ्येभ्यास्याडित्यात्स्येत्सर्वादेः / तित्स्मैस्मात्स्मिञ्जःश्यल्पादेः पूर्वद्वादौ तीयादिग्डि // 1 // 2 // 13 // विद्युन्माला // (115) टेनातः / [1 / 2 / 13 / 1 / ] टा इनः स्याद् अतः परः / तेन अतिजरसि न / अतः किम् ? सोमया / (116) भ्यैः / [1 / 2 / 13 / 2 / ] भोऽतिमात्रे ऐ स्याद् अतः / वृक्षैः / अतिजरसिः / अतः किम् ? शालाभिः / (117) द्यः कात् / [1 / 2 / 13 / 3 / ] द समो यस्य सद्म, इदम् अदस् इत्यर्थः / तस्मात् कान्तादेव भ्यै स्यात् / इमकैः / अमुकैः / कात् किम् ? एभिः / अमीभिः / इमैर्गुणैरिति श्छान्दसम् / (118) सुभ्ये / [1 / 2 / 13 / 4 / ] सुप् भि-ऐस्-अस्-अप्-सुप्-व्व-बहुष्वेषु परत अत ऐ स्यात् सर्वेषाम् / तेषु तेभ्यः 2 / एभिः / अमीभिः / बहुषु किम् ? सः /