________________ अथ चतुर्थाधिकार : लोभपरवशस्य धनशेखरस्य प्रवृत्तयः संसारि-जीव आह-अथाऽऽकर्णयाऽगृहीतसङ्केते ! मम मनुष्यगतिनगरागमनवार्ता तथाहि आनन्दपुरे दृप्यत्-प्रत्यर्थि-द्विपघटा-मदोन्मूलने केशरीव-केशरी नामा नृपः, तद् राज्ञी जयसुन्दरी, 'तत्र पुरे धनोपार्जयाभिध-श्रेष्ठिनः पल्याः धनमञ्जरी-नाम्न्याः कुक्षौ तद्भववेद्यकर्मरूपगुटिकां दत्त्वा भवितव्यतयावतारितोऽहम् / अथ यदा तया मे पुण्योदयः सखा दत्तस्तदाऽन्योऽपि सागराभिधः सखा दत्तोऽभूत्, ततः पूर्णे गर्भकाले प्रसूतोऽहम् / पुण्योदय-सागराख्य-मित्रद्वययुतः पित्रा महोत्सवपूर्वकं धनशेखर इति ममाऽभिधा चक्रे / क्रमेण वर्द्धमानस्य मे सागरमित्रानुभावात् मनस्येवं विकल्पा जायन्ते यत्-संसारे धनमेव सर्वाधिकं, येन तेनोपायेन धनमेव सञ्चितव्यमित्यादि-चिन्तयन् समये पठित: कला:, जातो वाणिज्यकुशलः / एकदा मया तातं प्रत्युक्तं- "हे तात ! भवदाज्ञा भवति चेत् तदाऽहं व्यापाराय देशान्तरं व्रजे'' तच्छ्रुत्वा पिता प्राह- "वत्स ! त्वमेक एवाऽस्माकं प्राणाऽवलम्बन-यष्टिभूतः पुत्रः विदेशगमनं त्वपायशतहेतुभूतं ततो नाऽनुजानीमो वयं देशान्तरं गन्तुम् / भूयोऽपि विद्यतेऽस्मद्गृहे वित्तम् / कुरु यथेच्छं दानभोगादि-समीहितं तद्व्ययेनेति।" पुनर्मयोक्तं- "तात ! अनुपार्जनया विकीर्यमाणा हि सागरप्राया अपि कोशा: क्षीयन्ते, तर्हि कियदेतद् धनम् ? अन्यच्च 'यः प्राप्त-तारुण्योऽपि पितृसत्कां लक्ष्मी भुनक्ति, स स्वजननीमेव भुनक्ति' इति लोकोक्तिः ततोऽनुजानीत यूयं, विदेशे गत्वा नानोपायैर्धनमर्जयित्वा स्वल्पकालेनैव गृहमागमिष्याम्यहमि' त्यादिवचोभिः पितरं मातरं च कथञ्चिदनुज्ञाप्याऽथ चलितोऽहं दक्षिणोदधि-तीरदेशान् प्रति, प्राप्तश्च समुद्रतटस्थं जयपुरम् ! तत्-परिसरे किन्नु प्रवहणमारुह्य यामि रत्नद्वीपे किन्नु चण्डिकादि-देवान् रुधिरादिबलिभिः प्रसाद्य धनमर्थये, किंवा केनचिच्छलेन कञ्चित् नृपं हत्त्वा, तद्राज्यं लामि? किमुत गुफादौ प्रविश्य रसकुम्पिकामानयमि ? किं वा धातुवादं प्रयोजयामि ? किंमथवा पातालं खनामीत्यादि नाना-धनार्जनोपायान् विमृशन् 1. तत्र पुरे सोमदेवाभिधश्रेष्ठिनः पल्याः कनकसुन्दरीतिनाम्न्या:-D //