________________ 47 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 यदमी तप्तत्रपु पाययन्ति एनमिति / " विमर्शोऽवदत्- “चणकपुरवास्तव्यः सुमुखनामा श्रेष्ठी महाधनो स बाल्यादेव स्त्रीकथा-भक्तकथा-देशकथा-राजकथा-लक्षणासु चतसृष्वपि विकथास्वत्यासक्तिमान् वाचाटो लोकैर्दुर्मुख इति धृत-यथार्थनामाऽन्येद्यु पुरनृपे तीव्राभिधे कञ्चिद् रिपुभूपमभिषेणयितुं प्रस्थिते कतिचिद् दिनेषु व्यतीतेषु "अस्मन्नृपस्तु प्रत्यर्थि-नृपेण पराभूतः कुतोऽपि गतः, प्रत्यर्थिसैन्यं चाऽत्रं पुरमोषार्थमायातीति पलायध्वं भो लोका !" इत्यनेन विप्रलपितम् / तत् त्रासात् पुरजनः सर्वोऽपि पलायितः, पुरं शून्यं जातम् / इतश्च सत्वरमेव तीव्रनृपः शत्रु विजित्य जितकाशी पुरमागतो, लोका अपि नृपागमन-मुदिताः पुरमायाताः / क्रमात् नृपेण पुरत्रासकारणे पृष्टे कस्यचित् मुखात् त्रासोत्पादनमूलमेनं दुर्मुखमवेत्य कोपाध्मातेन राज्ञा स्व-सेवकान् प्रत्यादिष्टं- "यदुत भो भटा ! यया जिह्वयाऽनेन दुर्मुखेन विप्रलपितं सा जिह्वा समूलमुन्मूल्यताम् यद्-गलनालादियं प्रवृत्तिर्निर्गता तत्र गलनाले तप्तं त्रपु क्षिप्यतामिति / " " तदेतेः भटाः नृपादेशादस्य विरुद्धभाषणफलमेतदुपदर्शयन्ति तदा प्रकर्ष ऊंचे"विकथासक्तानामविमृष्टभाषण-पराणामियमेवावस्था भवति, अत एव सत्पुरुषाः सर्वजनहित-परिमित-तथ्य-भाषका एव गीयन्तेऽतो हितेच्छुभिर्विकथा वर्जनीयाः / " तदवसरे एकः कश्चिदुज्वलः पुमान् राजमार्ने याति, तं दृष्ट्वा प्रकर्षेण पृष्ट"कोऽयं शुभ्रतनुः पुमान् यातीति ?" विमर्शो जगौ- "वत्स ! अयं रागकेशरिराजस्य भटो हर्षनामा मानवावासपुरवास्तव्यस्य वासवनाम्नो महेभ्यस्य चिरविप्रयुक्त-धनदत्ताभिध-वयस्यसमागममुदितस्य गृहे याति इति गतो हर्षस्तत्र / अथ वासवश्चिरेणागतं धनदत्तं वीक्ष्य हर्षवशात् समालिङ्गयाऽऽसनं दत्त्वा कुशलादिवा" पप्रच्छ, प्रमुदितः सर्वोऽपिगृहर्जनः, एवं वासवः सपिरजनो यावत् महाहर्षवंशो मित्रेण विनोदवार्ती * करोति तावदेको लम्बनकनामा वासवस्य गृहदासो देशान्तरादेत्य म्लानवदनः किञ्चिद् वक्तुमुपचक्रमे / अथं तदैवेकं श्यामपुरुषं वासवगृहं प्रति व्रजन्तं वीक्ष्य प्रकर्षण "कोऽयमिति?" विमर्श प्रति पृष्टं- विमर्शः प्राह- "वत्स ! अयं शोकस्य मित्रं विषादनामा मोहसैनिको वासवगृहं याति / यतोऽस्य वासवस्योपयाचितशतैरेको वर्द्धनमाना पुत्रोऽभूत् / क्रमेण स यौवनं प्राप्तो वाणिज्यार्थं वासवेन वार्यमाणोऽपि बहुधनमादाय देशान्तरं गतस्तत्र च कियन्तं कालं स्थित्वा कोटिशो धनान्यर्जयित्वा महता सार्थेन साकं गृहमागच्छन् क्रूरचौरधाट्या मुषितो, गृहीतं सर्वस्वं लुण्टितश्च सर्वोऽपि सार्थः, गृहीतश्च महेभ्योऽयमिति कृत्वा सपरिजनो वर्द्धनश्चौरैस्तन्मध्यादेको