________________ 44 पण्डित श्री हंसरलविरचिते तत्र चैको महेभ्यो हट्टे निविष्टोऽस्ति, तस्य पुरतो बहवो वणिकपत्रा लेखनतोलन-क्रय-विक्रयादिवाणिज्यं . कुर्वन्ति / नानामणि-रत्न-स्वर्ण-रूपाद्युच्चयाः पतिताः सन्ति। अथ तं दृष्ट्वा प्रकर्षो विमर्श जगौ- "मातुल! किमयं वणिक् प्रणतिकारिणोऽपि नरान् कटाक्षेणाऽपि नाऽवलोकते ? स्तुतिपरान् याचमानान् वा किं चिरेणाऽपि न प्रतिवक्ति, न शृणोत्यपि, नोर्ध्वं विलोकतेऽपि / ' विमर्शः प्राह- "वत्स! एतस्याऽङ्गे मिथ्याभिमानस्य भ्राता धनगाभिधः प्रविष्टोऽस्ति तद्वशा-दस्येदृशी दुरवस्था जाताऽस्ति / परमयं धनादिकं क्षणक्षयीति न जानाति / " इति यावत् तौ वार्तां कुरुतस्तावत् रागकेशरिनृपसुतोऽनन्तानुबन्धि-लोभः तस्याऽङ्के प्रविष्टः, अत्रान्तरे कश्चिद् भुजङ्गो रहसि तं श्रेष्ठिनमाकार्य बहुमूल्यं रत्नखचित-मुकुटमदर्शयत्, श्रेष्ठ्यपि स्तेनाऽऽहृतं विज्ञाय लोभवशात् किञ्चित् स्वल्पमूल्यं तस्य दत्त्वा मुकुटं जग्राह, गतो भुजङ्गः, क्षणाद् बिभीषणनृपस्य सैन्यं भुजङ्गस्य पदानुसारेण तत्राऽऽगतं, धृतो भटैः श्रेष्ठी समुकुटः, लुण्टितं च सर्वं तस्य धनसुवर्णाद्यं, विडम्बितश्चाऽसौ सर्वजनसमक्षं खरारोपादि-विविध-विडम्बनाभिः / .. समृद्धि-स्थिरतोपायाः अथैतवदलोक्याऽऽश्चर्याकुलमनाः प्रकर्षों बभाषे- "मातुल ! किमेतदिन्द्रजालविलसितं ? किं वा स्वप्नोऽयं ? क्षणमात्रादस्यैवंविधर्द्धिविस्तरः कथं व्यलीयत ?" विमर्शः प्राह- "इयं गतिरेव सदा धन-वैभवादीनाम्, अत एव सत्पुरुषा धनगर्वं न कुर्वते / धनलोभिन: पुरुषाः अकार्यशतै-र्नीचजनसेवनैर्दुष्करोपायसहस्रैः कृच्छ्रेण धनान्यर्जयन्ति, परं तानि शारदाभ्रपटलानीव तेषां पश्यतांमेव कुतोऽपि यान्ति / अत्र प्रकर्षो जगाद मातुल ! स्वभावचपलमेतद् धनं कथमपि स्थिरीभवति ?" तदा विमर्शः स्माह- "शृणु वत्स ! धन स्थैर्योपायान्, यः किल न्यायार्जितं धनं लब्ध्वा शुद्धाचारैः प्रवर्त्तते, दीनानाथादिजनाननुकम्पते, परपीडां न कुरुते, स्वशक्त्या चोपकुरुते, चित्तं वशीकुरुते, सुक्षेत्रेषु धनं व्यापारयति धनमूछौँ न विधत्ते इत्याद्युपाय- परस्य तस्य पुंसः पुण्यानुबन्धिपुण्य निगडितं धनं स्थिरीस्यात् / वेश्याऽऽसक्तानां दुर्दशा इत्थं नाना वार्ता-विनोदपराभ्यां ताभ्यां तदवसरे कश्चिद् युवा दरिद्रः परिहितमलिम्लुचशटितप्रायांऽशुकः किञ्चिद्-द्रव्यव्ययेन चतुष्पथमध्याद् मोदक-ताम्बूलादि गृहीत्वा किञ्चित् निष्क्रयेण रजकगृहाद् विशदवासांसि परिधाय सुरभितैल-पुष्पादिभि: स्वाङ्गं विभूष्य क्वापि व्रजन् ददृशे तमालोक्य प्रकर्शः पप्रच्छ मातुल! कोऽयं