________________ विषयतावादः [131 * मन्मते-प्रथमे घटत्वप्रकारतानिरूपितघटविशेष्यता भूतलनिष्ठविशेष्यतानिरूपितप्रकारत्वाभिन्ना, द्रव्यत्वप्रकारतानिरूपितविशेष्यता च तद्भिन्ना द्वितीये च द्रव्यत्वप्रकारता निरूपितघटविशेष्यता भूतलविशेष्यतानिरूपितप्रकारताऽभिन्ना, घटत्वप्रकारतानिरूपितविशेप्यता च तद्भिन्नेति वैलक्षण्योपपत्तेः, एवं 'रक्तदण्डवान् पुरुष' इत्यादि ज्ञाने रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतैव पुरुषविशेष्यतानिरूपितप्रकारता रूपा स्वीकार्या, तद्भेदे 'रको दण्डो दण्डवान् पुरुष' इत्यादि समूहालम्बन[नात् ] तादृशविशिष्टबुद्धलक्षण्यानुपपत्तेः, उभयत्रैव रक्तत्वप्रकारतानिरूपिता या दण्डप्रकारता तन्निरूपितविशेष्यतायाः सत्त्वादिति / केचित्तु उद्देश्यत्वविधेयत्वे अपि विषयताविशेषौ / न च किञ्चिद्धर्मावच्छिन्नविशेष्यत्वमेवोद्देश्यत्वं तादृशविशेष्यतानिरूपितप्रकारत्वमेव विधेयत्वमस्तु किं तयोरतिरिक्तत्वस्वीकारेणेति वाच्यं, तथा सति 'वह्निमान् पर्वतो घटवानि'त्यादि बोधस्यापि पर्वतत्वावच्छिन्नोद्देश्यता निरूपितवयादि विधेयताशालित्वात् 'पर्वतो वह्निमानि'त्यनुमित्यनन्तरमिव तादृशानुमित्यनन्तरमपि पर्वते वह्निमनुमिनोमीत्याद्यापत्तेः / ___मन्मते . तु-तादृशज्ञानव्यावृत्तायाः पर्वतादिविशेष्यतानिरूपितप्रकारताविलक्षणपर्वतादि निष्ठोद्देश्यतानिरूपितवन्यादि विधेयताया एव तादृशानुव्यवसायविषयत्वाभ्युपगमादेव ताहशानुव्यवसायापत्त्यसम्भवात् अथ पर्वतविशेष्यकवह्निप्रकारकानुमितित्वमेव तादृशानुव्यवसाय विषयः, विषयतासम्बन्धेन तादृशानुव्यवसायं प्रति . पर्वतविशेष्यकवह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वेन तादात्म्यप्रत्यामत्त्या हेतुत्वोपगमान्न वह्निमान् पर्वतो घटवानित्याकारकानुमित्यनन्तरं तथाविधानुव्यवसायापत्तिरिति किमतिरिक्तविधेयतया ? न च तादृशगुरुधर्मावच्छिन्नस्य तथाविधानुव्यवसायहेतुत्वकल्पनापेक्षया पर्वतविशेष्यतानिरूपितवह्निविधेयताकानुमितित्वेन तद्धेतुत्वकल्पने लाघवादतिरिक्तविधेयता सेत्स्यतोति वाच्य; लाघवमात्रेणातिरिक्तविषयतासिद्धौ धूमपरामर्शादिजन्यतावच्छेदकतयाऽपि विलक्षणविषयतासिद्धिप्रसङ्गात् / क्लुप्तविषयतायास्तज्जन्यता वच्छेदकत्वे तस्या आलोकलिङ्गकानुमिति साधारणतया तत्र व्यभिचारवारणायाव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ प्रदेशेऽतीव गौरवम् / अथातिारतविधेयतानभ्युपगमे सिद्धयभावजन्यतावच्छेदकं दुर्वचं, तथाहि, पर्वतो वहनिमानित्यादि सिद्धयभावस्य जन्यतावच्छेदकं न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्निप्रकारताकानुमितित्वं वह्निमान् पर्वतो घटवानित्येताहशानुमितौ व्यभिचारात् / नापि पर्वतत्वावच्छिन्नविशेष्यताकवह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वं, वहनिव्यायधूमवान् पर्वतो घटव्याप्यवांश्चेत्याद्याकारकसमूहालम्बनजन्यायां तथाविधानुमितो व्यभिचारादिति चेत् , न, वह्नित्वान्यधर्मानवच्छिन्नप्रकारता नरूपितपर्वतत्वावच्छिन्नविशेष्यता.. इत्यनुव्यवसायापत्तरित्यर्थः /