________________ 130] विषयतावादः वस्तुतस्तु विशिष्टवैशिष्टयबोधविचारे निरवच्छिन्नविषयत्वादीनां विशिष्टवैशिष्टयबोधसाधारण्यस्य खण्डितत्वात्तादृशविशेष्यताशून्यबोधस्य भूतलत्वादिप्रकारतानिरूपितावशेष्यता शालित्वोपपत्तये भूतलत्वाद्यवच्छिन्नविशेष्यताया एव तत्प्रकारतानिरूपितत्वं स्वीकरणीयम् / अथैवं तादृशज्ञानस्य भूतलत्वप्रकारतानिरूपितभूतलत्वाद्यवच्छिन्नविशेष्यताशालित्वाद् भूतल- . त्वादिविशिष्टे भूतलत्वादिवैशिष्टयावगाहिनो भूतलं भूतलमित्याकारकज्ञानाद् भूतलं घटवदित्याकारकज्ञानस्य वैलक्षण्यानुपपत्त्या तादृशज्ञानाद्भूतलत्वविशिष्टे भूतलत्ववैशिष्टयावगाहिस्मरणापत्तिरिति चेत् , न, घटवद्भूतलमित्याद्याकारकज्ञानीयभूतलविशेष्यताया भूतलत्वप्रकारता निरूप्यत्वेऽपि तस्या भूतलत्वावच्छिन्नत्वविशिष्टविशेष्यतात्वेन, न तन्निरूप्यत्वं किंतु भूतलविशेष्यतात्वेन, 'भूतलं भूतलमि'त्यादौ च भूतलत्वावच्छिन्नत्वविशिष्टविशेष्यतात्वेनैव भूतल [त्व] प्रकारतानिरूपितत्वमित्यभ्युपगमेन तद्वैलक्षण्योपपत्तेः / अवच्छेदकत्वमपि द्विविधम् , अवच्छिन्नं निरवच्छिन्नं च, तत्रावच्छिन्नमवच्छेदकं [कत्वं] जातिमद्भूतलं घटवादत्यादौ तत्र भूतलत्वादिनिष्ठविशेप्यताया* जातित्वावच्छिन्नत्वात् / भूतलं घटवदित्यादौ च भूतलत्वादिनिष्ठविशेप्यतावच्छेदकत्वादिकं निरवच्छिन्नमिति / एवमवच्छेदकतानिरूपिताऽवच्छेदकत्वादिकमपि व्याख्यातम् / / ___अवच्छेद कतावच्छेदकत्ववच्छेदकांशे विशेषणतापन्नमेवेति बोध्यं / विषयता [व] द्विषयादिभेदेनाननुगतानां विषयतानामनुगमकं विषयतात्वमप्यधिकं [अतिरिक्तं] आस्थेयम् , अन्यथा घटो ज्ञानविषयः पटो ज्ञानविषय इत्याकारिकाया अनुगतप्रतीतेरनुपपत्तेः घटत्वविशिष्टबुद्धित्वावच्छिन्न प्रतिघटत्वादिविषयकज्ञानत्वादिना हेतुत्वानुपपत्तेः, घटत्वाचेकैक वृत्तिविषयतानामेव प्रकारताविशेष्यत्वादिभेदेन नानाविधतया कारणतावच्छेदकाननुगमेन व्यभिचारप्रसङ्गात् / एवं विशेष्यतात्वतत्तदवान्तरावच्छेदकत्वप्रकारतात्वादिकमप्यनुगतप्रतीतिबलादतिरिक्तमुपगन्तव्यम् / अत एव पर्वतत्वाधवच्छिन्नविशेष्यकवह्नयाधनुमितित्वावच्छिन्नं प्रति पर्वतत्वावच्छिन्नविशेष्यता निरूपितवह्निव्याप्यधूमादिप्रकारता शालिज्ञानत्वादिनाऽनुगतहेतुत्वकल्पनमुपपद्यते अन्यथा तत्तद्ध्मादिभेदभिन्नानां प्रकारत्वादीनाम् अननुगमेन तदनुपपत्तेः। प्रकारतात्वविशेष्यतात्वादिकं न मिथो विरुद्धं घटवद्भूतलमित्यादिज्ञाने घटत्वादिप्रकारता निरूपितघटादिनिष्ठविशेष्यताया एव भूतलादिनिष्टविशेष्यतानिरूपितप्रकारतारूपतया तत्र विशेष्यतात्वप्रकारतात्वयोः समावेशात् / तत्र तादृशप्रकारताविशेष्यतयोर्भेदे घटवभूतलं द्रव्य, द्रव्यवद्भूतलं घटश्चेति ज्ञानयोःलक्षण्यानुपपत्तेः; उभयत्रैव घटत्वप्रकारतानिरूपिताया घटविशेष्यताया. घटप्रकारतानिरूपितभूतलविशेष्यतायाश्च सत्त्वात् / * विशेष्यतावच्छेदकताया इति प्रत्यन्तरपाठोत्रार्थनुसन्धाने समुचितः।