________________ प्रास्ताविकम् विदितमेव समस्ति समस्ताशेषशेमुषीजुषां विदुषां पल्लोकेऽस्मिन्नेहलौकिकः पारलौकिको वा यावान् किल व्यवहार प्रचलति तावानखिलः खलु स ज्ञानादेव भवितुमर्हति नान्यथा। तदुक्तमन्नभद्देन तर्कसंग्रहे-सर्वव्यवहार-हेतुर्गुणो बुद्धि निमिति / अतस्तदर्थ सर्वव्यवहारो ज्ञानमेवापेक्षन्ते / सर्वमपि ज्ञानं प्रायः शब्दज्ञानजन्यं भवति–तथोक्तं छैपाकरणमूर्धन्येन भर्तृहरिणा वाक्यपदीये न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाहते। ___ अनुविद्धमिव ज्ञानं सर्व शब्देन भासते // धर्मार्थकाममोक्षाख्यपुरुषार्थानामपि सिद्धौ प्रधानं कारणं शब्दज्ञानमेव नान्यत् / तदुक्तं पातञ्जले महाभाष्ये परमर्षिणा पतञ्जलिना-एकः शब्दः सम्यग्ज्ञातः सुष्ठु सुप्रयुक्तः स्वर्गे लोके च कामधुग भवतीति / शब्दज्ञानं तु व्याकरणापरपर्यायशब्दानुशासनाज्जायते इत्यतो व्याकरणस्य परमावश्यकत्वं प्रतिभाति / यथा सर्वेष्वप्यङ्गेषु मुखं प्रधानमङ्गम् तथैव सर्वेष्वपि शास्त्रेषु प्रधानं व्याकरणमेव / तदुक्तम्-शिक्षायां मुखं व्याकरणमिति। ___तत्र नामाख्यातनिपातोपसर्गाधनेकविधशब्दानां मध्ये नाम-शब्दाः केचन पुल्लिंगाः केचन स्त्रीलिंगाः केचिच्च नपुंसकाः / केचिद् उभयलिंगाः केचित्तु त्रिलिंगाः। अतो लिंगनिर्णयाय पूर्वाचाय लिंगानुशासनं व्यरचि / तच्च कठिनमिति विज्ञाय बहुजनहिताय बहुजनसुखाय च सतां प्रवृत्तिरिति प्राचीनोक्तिं सफलां कुर्वाणैः परोपकारपरायणैः पंडितप्रकांडै जैनाचार्यवरन्वर्थनामधेयैः श्रीकल्याणसागरसूरिपुरन्दरैः प्रणीतमिममतिसरलं संदिग्धलिंगनिर्णयनामकग्रंथं लोकं लोकं परमानंदतुंदिलं नरीनर्ति मे चेतः / मन्येऽहं पन्नूनमेव लिंगनिर्णयं कर्तुकामानां महते उपकाराय संभवेदयं ग्रंथ इति / न्याय-व्याकरण-वेदान्ताचार्य पं. हरिनारायण मिश्र