________________ शेषा उक्ताश्च ये शब्दास्ते प्रत्ययादिभेदतः / लिंगान्तरेण वर्तन्ते केचिदूह्या स्वयम्बुधैः // 11 // उक्तादन्येऽपि ये शन्दा यद्यद्-लिंगप्रवर्तिनः / प्रायस्ते तादृशाः वाच्याः रूढितः स्वधियाऽनिशम् // 111 // स्वमताल्लिगभेदोऽत्र ज्ञेयः सौम्यमतात् किल / विचार्य धिषणावद्भिः सूरिभिः दीर्घदर्शिभिः // 112 // लिंगानुशासनाच्छन्दाः प्रशिता इह केचन / ' तदर्थश्च ततो वाच्यः दृष्ट्वा तत्पुस्तकं परम् // 113 // . शब्दाः स्वगुणलिंगस्था वर्तन्ते येऽपि केचन / ते गुणि-वर्तमानाः स्युस्त्रिषु ज्ञेया च कोविदः // 114 // . लिंगानि कियतां नाम्नां नोक्तानीह प्रमादतः / वाच्यानि तानि विद्वद्भिः स्वयं निर्णीय सद्धिया // 115 // सूत्रपाठक्रमेणेव कल्याणोदधिसूरिणां / स्वपरस्मृतये नित्यं लिखितो लिंगनिर्णयः // 116 // इति सामान्यकांडोक्त-लिंगनिर्णयः समाप्तः // 6 // इति समाप्तः लिंगनिर्णयः /