________________ 221 इन्द्रियार्थापेक्षया मिथ्यात्वस्य महापापत्वम् सुगतादीनि, अन्यतीर्थिकपरिगृहीतानि वार्डच्चैत्यानि-अर्हत्प्रतिमालक्षणानि / यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि बोटिकपरिगृहीतानि वा / वन्दितुं वा नमस्कतुं वो / तत्र वन्दनमभिवादनं, नमस्करणं च प्रणामपूर्वकमित्यादि यावत् प्रथममालप्तेन असम्भ्रम लोकाऽपवादभीरुतया कीदृशस्त्वमित्यादि(प्रति) षाच्यम् / तथा तेषामन्यतीथिकानां दातुमनुप्रदातुं वा न कल्पते / तत्र सकृद्दानं. पुनःपुनरनुप्रदानं, किं सर्वथैव न कल्पते ? इत्याह-अन्यत्र राजाद्यमियोगं मुक्त्वा / अयमर्थः-राजादिनियोगादिना दददपि न धर्ममतिक्रामति, करुणागोचरं पुनरापन्नानामेतेषामनुकम्पया दद्यादपीत्यर्थः / अत्र बोटिकपरिगृहीतानीति वाक्यमात्रं क्वचिदादर्श न दृश्यते, परं बाहुल्येन दृश्यते अतो न सम्मोहो विधेय इति बोध्यम् / अत एव मिथ्यादृशां निजनिजदेवादिविषयकप्रशस्ताध्यवसाय एव महापापम् , तस्यैव मिथ्यात्वरूपत्वात् / यदाह श्रीहरिभद्रसूरिः- समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमइ' इत्यादि यावत् तदेव लेशत आह'लौकिकदेवेषु भवानीपति-श्रीपति-प्रजापति-शचीपति-रतिपति सुगतप्रभृतिषु किं ? प्रशस्तमनोवाक्कायव्यापारः, प्रशस्तानां-मुक्तिनिमित्ताराध्यतासूचकानां मनोवाकायानां संस्मृतिस्तुतिपूजादौ व्यापारो-व्यापृतत्वं प्रशस्तमनोवाकायव्यापार इति समासः। मिथ्यात्वं विज्ञेयमिति सम्बन्धः' इति श्रावकविधिप्रकरणवृत्तौ। एतेन द्वयोरपि मिथ्यादृशोर्मध्ये पृथिव्याद्यारम्भप्रवृत्तापेक्षया निजनिजदेवाचाराधनप्रवृत्तः शोभनः, देवादिशुभगतिहेतोस्तथाऽध्यवसायस्य शुभत्वादिति वचनमप्यपास्तम् / तथाभूताध्यवसायस्य शोभनत्वे सम्यक्त्वोच्चारे ‘णो कप्पइ अण्णउत्थिए ' वेत्यादिरूपेण मिथ्यात्वप्रत्याख्यानानुपपत्तिप्रसक्तः / नहि शुभाध्यवसायस्य तद्धतो र्वा प्रत्याख्यानं सम्भवति, तत्प्रणेतुरसर्वज्ञत्वापत्तेः / तेन यद्यपि तथाभूताध्यवसायोऽपि कस्यचिद् देवादिशुभगतिप्राप्तिहेतुर्भवति, तथापि महापापरूप एव, पापानुबन्धिपुण्यप्रकृतिवन्धहेतुत्वेन महाऽनर्थहेतुत्वात् / यतस्ततश्च्युतो मनुष्येषु उत्पन्नः सर्वेष्वप्यकार्येषु अस्खलितप्रवृत्तिभाग्भवति, ततश्च नरकादिदुर्गतिगामी / सम्मतिस्तु पुरो वक्ष्यते / एतेनापेक्षिकं शुभत्वमिति शङ्काऽपि परास्ता, पृथिव्याद्यारम्भप्रवृत्तस्य सम्यग्दृशोऽन्यतीर्थिकदेवाचाराधनपरित्यागानुपपत्तिप्रसक्तेः , बहुपापपरित्यागमन्तरेण अल्पपापपरित्यागस्यायुक्तत्वात् / नहि परस्त्रीसङ्गप्रवृत्तस्य स्वस्त्रीसङ्गपरित्यागो તે શોભન. દેવાદિ શુભગતિને હેતુ જે તેહવો અધ્યવસાય તેને શુભપણુથી. એ વચનપણિ ટહ્યું. તેહવા અથવસાયને મનપસે સમ્યફના ઉચ્ચારને વિષે “ન કપઈ અન્ય તી .' ઇત્યાદિપ મિથ્યાત્વપ્રત્યાખ્યાનની અયુક્તતા થાઈ, સુભાષ્યવસાય અથવા તેહને હેતુનું તે પ્રત્યાખ્યાન ન હઈ. તેના પ્રરૂપકને અમનપણાની આપત્તિથી. તેવી જઉ છે તેહ અધ્યવસાય પણિ કણેકનઈ દેવાદિક શુભગતિ પ્રાપ્તિનો હેતું હુઈ, તફહે મહાપાપ જ. પાપને અનુબંધ જે પુયસ્કૃતિને બંધ તેહનું હેતપણે કરીને મહાઅનર્થના હેતુપણુથી. જે માટે તિહાંથી મનુષ્યને વિષિ ઉપન, સર્વ અકાર્યને વિષે અખલિત પ્રવૃત્તિને ભજનાર હઈ. તિવાર પછી નરકાદિદુર્ગતિને ગામી. શાખિ તો આમલ કહીએ. એતલે અપેક્ષા શુભપણું એ શંકા ટાલી. પૃથિવ્યાદિકના આરંભને વિષે પ્રવર્તી સમ્યગદષ્ટિને અન્યતીર્થિક દેવાદિકના આરાધનના પરિત્યાગની અયુક્તતાના પ્રસંગથી. બહુ પાપના પરિત્યાગ વિના અલ્પપાપના પરિત્યાગને અયપણાથી, જે માટે પરસ્ત્રીના સંગને વિષે પ્રવર્ચી ને પોતાની સ્ત્રીના સંગને યાગ તે ધમપણિ