________________ महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवासुपूज्य ऋतुकालव्यतिक्रान्तौ ब्रह्महत्यां च येऽभ्यधुः / तेषामधर्मे किं वाच्यं ब्रह्मचर्यापलापिनाम् / / 105 / / आदित्सतोऽपि सर्वस्वं यजमानात् जिघृक्षताम् / अर्थार्थे त्यजतां प्राणान् काऽऽकिश्चन्यं द्विजन्मनाम् // 106 // स्वल्पेष्वप्यपराधेषु क्षणाच्छापं प्रयच्छताम् / लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते !107 / गृहिणीगृहपुत्रादिपरिग्रहवतां सदा। द्विजन्मनां कथं मुक्तिों भैककुलवेश्मनाम् // 108 // ये तु रागादिभिर्दोषैः कलुषीकृतचेतसः / न तेषां सूनृता वाचः प्रसरन्ति कदाचन // 109 // तथाहि यागहोमादिकर्माऽपीष्टादि कुर्वताम् / वाषीकूपतडागादिनाऽपि पूर्तान्यनेकशः // 110 // संसारविधिलुब्धानां संसारस्यैव वर्द्धनम् / तदैव मूर्तेः कैवल्यं पूज्यते न सह स्त्रिया // 111 // यतः-मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ / नारायणकलां शान्तां भजन्ते हयनसूयवः // 112 // भागवते-योगजन्मा मतो धर्मः सर्वः सिद्धिनिबन्धनम् / तत् पारमेश्वरी मूर्तिः सेव्या योगस्य मुद्रया // 113 // यतः कुमारसम्भवकाव्ये१पर्यतबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् / . उत्तानपाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्ये // 114 // पशुधातनतः स्वर्गों यदि स्यान्नरकः कुतः ? / न ह्येककारणापत्तौ कार्याणां स्यादनेकता // 115 / / धृतयोत्पादिकरणे प्रायश्चित्तोपदेशिनः / पञ्चस्वापत्सु नारीणां पुनरूद्धाहकारिणः // 116 // अपत्यासम्भवे स्त्रीषु क्षेत्रजाऽपत्यवादिनः / सदोषाणामपि गवां रजसा शुद्धिवाचिनः // 117 // 1. कुमारसम्भव 3-45