________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् देवता श्यामवर्णाऽभूच्चंद्राभा हयवाहना / दक्षिणो वरदः शक्तिधारी तस्याः करः स्मृतः / 88 / वामहस्तद्वये पुष्पं गदां च दधती सुरी। सर्वा समवसरणस्थितिः पूर्वेव रेजुषी // 89 // बलभद्रो द्विपृष्ठश्च श्रुत्वा जिनवरागमम् / रागमन्त्रैरिवाकृष्टः प्राग्वनत्वा जिनं स्थितः // 9 // धर्मः क्षमादिर्दशधा सर्वज्ञाभिविनिश्चितः / पारम्पर्यात् तमाचर्याऽऽचार्यादेः सिद्धिमाश्रयेत् // 91 / / इत्यादिदेशनां जैनी श्रावं श्रावं सदाश्रवाः / श्रावका वतिनश्चान्ये परे सम्यग्दृशोऽभवन् // 92 // अथ दशविधो धर्मों मिथ्याग्भिन लक्ष्यते / योऽपि कश्चित् क्वचित् प्रोचे सोऽपि वाङ्मात्रनर्तनम् // 93 // तत्त्वार्थों वाचि सर्वेषां केषाञ्चन मनस्यपि / क्रियायामपि ननति नित्यं जिनमतस्पृशाम् // 94 // वेदशास्त्रं पुरस्कृत्य ये धर्म निर्दिशन्ति च / तदप्रामाण्यमादिष्टं यतो भागवतोदितम् // 15 // 'तथैव राजन्नूगार्हमेधवितानविद्योरुविजृम्भितेषु / / न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः / / 96 // हिंसाजनितपापानि गोमेधाद्यानि मन्यवः / न निवर्तयितुं शक्ता इति भागवते वचः / / 97 / / यथा पङ्कन पङ्काम्भः सुरया वा सुराकृतम् / तथा हत्याकृतं पापं न यज्ञैर्माष्टुमर्हति // 98 // ऋषभस्वामिनो वृत्ते यत् तत्रैवोक्तमङ्गिनाम् / दयायां हृदयं योज्यमित्थं सहृदया जगुः / 99 / यतः सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि / * सम्भावनीयानि पदे पदे वै विविक्तदृग्भिस्तदुहाहणं मे // 100 / / शौचमुक्तं ब्रह्मचर्य ब्रह्मचारी सदा शुचिः / इत्युक्तेस्तत्परित्यक्ते न शौचं मृज्जलादिभिः / / 101 // सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः / सर्वभूतदया शौचं पञ्चमं जलशौचकम् / / 102 // "महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् / - महान्तस्ते समचित्ताः प्रशान्ताः विमन्यवः सुहृदः साधवो ये // 103 // इति भागवतस्योक्ते शौचं मैथुनात् परम् / इति मत्वा ब्रह्मचर्यमाचार्याः प्राहुरुत्तमम् / / 104 // 2. भागवत पु० स्कंध. 1 अ० 8 1. भागवत पु० स्कंध. 5 अ० 11 1.-4. भागवत पु० स्कंध 5 अ. 5