________________ महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवासुपूज्यदूतवाचं विचारौंनां सिंहसेवां किमिच्छति / शृगालबालौ नालस्यः स्वबलं श्ववलं धरन् // 68 // आयातु स्वयमेवाऽयं कायं त्यजतु मत्करात् / सम्परायं विधायेह कोऽन्तरायं करिष्यति // 69 // द्विपृष्ठगर्जितैरेवं विजयेऽत्रानुवादिनि / वर्जितः सदसौ लोकैीत्याऽगात् स्वामिनोऽन्तिकम् // 70 // तारकः शकुनैमित्रैर्वार्यमाणोऽप्यनार्यधीः / आयाते चार्द्धमार्गेण रणप्रेरणमातनोत् // 71 // शूनां पशूनामिव तां रणभूमि क्रुधाऽरुणः / भटवर्गोऽमृशत् स्वर्गवासाभ्यासममुत्र यत् // 72 // कतिभिर्दिवसैर्भग्ने बले तस्य दिशोदिशं / तदोद्विग्नमना मानी ढौकयामास तारकः // 73 // एकपृष्ठो द्विपृष्ठात् किं कदापि बलवान् भवेत् / विजये प्रातिकूल्येन तारकोऽतारको यतः // 74 // मर्मविद्धः शरैः शीघ्रं हरिणा प्रतिमाधवम् / अशक्तस्तं विजेतुं स हेतुमन्विष्ट तारकः // 75 // देवदत्तां सप्तरत्नी द्विपृष्ठस्यातिदुर्जयाम् / पश्यन्नस्य जयोपायं चक्रे स्वमदविस्मितः // 76 // मुधा ताम्यसि किं सम्यग् याहि पाहि शिशोः कुलम् / भ्राम्यता तेन चक्रेण संहर्ता तेऽन्यथास्म्यहो // 77 // इत्येवं निगर्दैश्चक्रं मुमोच शोचनं विना / तत् तस्य हृदये घातं किश्चित् कृत्वा करे स्थितम् // 78 // तद्वयथामूच्छितं विष्णुं विलोक्य विजयः क्रुधा / उदायुधाः सैनिकाचोपतस्थुस्तारकक्षये // 79 // विष्णुरुत्थाय तच्चक्रं मुमोच तारकच्छिदे / कण्ठमस्याक्षणोतु तूर्ण जातं विष्णोर्यशो भृशम् / / 80 // देवरस्य शिरस्याशु पुष्पवृष्टिय॑धीयत / विष्णुर्जातो द्वितीयोऽयमद्वितीयपराक्रमः // 81 // त्रिखण्डीभारती सम्यक् संसाध्याभ्येत्य चाधरत् / आललाटं कोटिशिलां दशार्णाचलसन्निधौ // 82 // द्वारकामागतस्यास्य विष्णोर्जज्ञेऽभिषेचनम् / लोकस्तेन गलच्छोकस्तदाज्ञा प्रतिपन्नवान् // 83 // वासुपूज्यो मासमेकं छामस्थ्ये विहरन् भुवि / दीक्षोद्याने पाटलाधः केवलज्ञानवानभूत् // 84 // द्वितीयस्यां माघशुक्ले वारुणेन्दौ चतुर्थकृत् / सर्वज्ञः सर्वदर्शी सः भव्यजीवानबूबुधत् // 85 // षट्षष्टिगणनाथानां सूक्ष्मादीनां विभोरभूत् / यक्षः कुमारो तीर्थेऽस्य हंसयानश्चतुर्भुजः // 86 // बीजपूरं शरं बिभ्रदक्षिणे पाणवामले / वामद्वये तु नकुलधनुर्धरणतत्परः // 87 //