________________ चरितम् ) लघुत्रिषष्टिशलाकापुरुषचरितम् [67 मज्जीवितवियोगेन स एवायातु तन्मनाः / तज्जीवितग्रहात् कुर्वे सङ्गतां गुणमञ्जरीम् / / 48 / / निशम्य सम्यक् ता वार्ता पर्वतात् गर्वपवेतात् / अभ्यषेणयदेनं स विन्ध्यशक्तिरवंध्यवाक् / 49 / सङ्ग्रामागतयोः सैन्येऽन्योन्यं युद्धविधायिके / खिन्ने भिन्ने सुरलोके नृपयोः सङ्गरोऽभवत् // 50 / / प्रौढे तत् पर्वते किश्चिद् बलं चलति कस्यचित् / विन्ध्यशक्तेर्बले भग्ने स्वं सेनान्यमतिष्ठिपत् / / 51 / / तं पर्वतं विन्ध्यशक्तिनिवर्वीय च निरायुधम् / चक्रे वक्रेतरमिव स पलायत सर्वतः / / 52 / / हस्ताहस्तिकया लुटय साकेतं गुणमञ्जरीम् / / विन्ध्यशक्तिर्गृहीत्वा च ययौ स्वं नगरं जयी // 53 // पराभूतः पर्वतोऽपि सम्भवाचार्यसन्निधौ / प्रव्रज्य दुस्तपतपः कृत्वाऽन्तेऽनशने स्थितः // 54 // विन्ध्यशक्तेनिहन्ताऽहं भूयासमपरे भवे / निदानमकरोदेवं देवोऽपि प्राणतेऽभवत् / / 55 // च्युतोऽतो विजयपुरे श्रीधराधिपकामिनी / श्रीमत्यस्यां स्वप्रयोगात् सञ्जातस्तनयोऽनयोः / 56 / नाम्नाऽवतारकः स्फारकर्मा यौवनसम्भवे / स सप्ततिधनुष्काङ्गस्त्रिखण्डभरतेश्वरः / / 57 / / ईतश्च द्वारकापुर्या पश्चिमाब्धिपयोभरैः। स्नातायां तद्विनिर्यद्भिर्भूषितायां मणीगणैः / / 58 / / ब्रह्मा नृपतिरेतस्यास्तस्याङ्गना द्वयी प्रिया / __ आद्या सुभद्रा भद्राङ्गी तस्या उमाऽपरा स्मृता / / 59 / / पूर्व पवनवेगस्य जीवोऽनुत्तरतश्चयुतः / सुभद्रायाः कुक्षिरत्नं स जज्ञे सुप्रसाधनम् / / 60 // * स्वप्नैश्चतुभिर्भूजानिर्विवेद बलसम्भवम् / साहचर्यादार्यपुत्रं विष्णुं चामंस्त भाविनम् / / 61 / / पुत्राभिधां विजय इत्यादधे समयान्तरे / उमाऽथ गर्भमाधत्त जीवं पर्वतभूपतेः / / 62 / / सा सुप्ता सप्त स्वमान् सप्तसप्तिसमप्रभान् / दृष्ट्वाऽऽचष्ट प्रमोदेन प्रणम्य ब्रह्मभूभुजे // 63 // पृष्ठे वंशद्वयं दृष्ट्वा जातस्याऽस्य प्रशस्यधीः / द्विपृष्ठ इति नाम्नांमुमभाषिष्ट नरेश्वरः / / 64 // विजयः प्रणयोद्देशात् सद्देशाद् भ्रातरं लघुम् / मुमोच नेषत् पाथोजलोचनं भवने वने / / 65 / / दोबलं विपुलं बुद्धिं वृद्धि प्रवर्द्धमानयोः / ययोजितद्वयोः श्रुत्वा तारकः कम्पधारकः / / 66 / / ब्रमराजं धृतव्याज व्याजहार भवत्सुतौ / प्रेष्यौ सेवाकृतेऽस्माकमिति दूतगिराभरात् / / 67 / /