________________ महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्री वासुपूज्य इतश्च दक्षिणे क्षेत्रभरतार्द्ध महीपतिः / विन्ध्यशक्तिविन्ध्यपुरे सुरेशं देशपेशले // 33 // * तदेव दैवतस्थानसदृशं सुन्दरं भृशम् / साकेतं कृतसङ्केतं शुभार्थनगरं वरम् // 34 // पर्वतः सर्वतः श्रेयान् धैर्यवान् पवर्तोपमः / ___ ऊर्ध्वस्थितिमतिमतामतिशायी स दोष्मताम् // 35 // तस्यावश्यं वश्यचेता वेश्याऽस्ति गुणमञ्जरी / ___ स्वर्णाभरणकान्त्येव पिञ्जराङ्गी मनोरमा // 36 / / पूर्णचन्द्राकृतिं कर्तुं कृती चक्रे तदाननम् / विधिस्तथाऽपि नो साम्यात् तत्राङ्क निदधेऽधिकम् / / 37 / / राहुमहाबाहुरपि न शक्तस्तत्पराभवे / पार्श्वे वेणिमिषात् तस्थौ सुमनोबन्धनाग्रहात् / / 38 / / स्तनयोर्मा सलत्वेन तथा हारावतारतः / मध्यं भारभरात् क्षामं बद्धं त्रिवलिभिस्ततः // 39 / / रागः कण्ठेऽधरे पाणौ पादेन नृत्यमोहने / तेन रागमयी सैषाऽकरोद् रक्तं नृणां मनः // 40 // तौर्यत्रिकोऽपि साधुर्यों माधुर्याद्वचसां पिकी / सा धुर्या भावमुद्भाव्य रञ्जनेन मनस्विनाम् / / 41 // तया विना तु ते राज्यं मन्ये कैतवसन्निभम् / इत्याकर्पोमुचन् मन्त्रिमुख्यं सख्येन पर्वते / / 42 // तत्र गत्वाऽवदन् मन्त्री स्वामिन् कामितसङ्गमः / सखे सखेदं मा विद्धि सिद्धिः सर्वा त्वदागमे / / 43 / / .. राजकार्यवशान् मित्रानागमे त्वत्पण्याङ्गना / प्रेष्या तद्गुणंगीतान्मां प्रीणाति गुणमञ्जरी / 44 / विंध्यशक्तेर्वस्तु शस्तं त्वद्धस्तेऽवेहि तावकम् / तन्ममेत्येव जानाति स तत्रेष्टं समाचर // 45 // इति मजुगिराऽप्येष सविशेषक्रुधा ज्वलन् / दासीमपि न दास्यामि किं पुनर्गुणमञ्जरीम् / 46 / को विन्ध्यशक्तिरव्यक्तस्त्यक्ता मैत्र्यपि तेन मे। . यो वांछति जीवितं मे वेश्यां तां गुणमञ्जरीम् / / 47 / / . * -बृहस्त्रिषष्टौ-एकदा सर्वसामन्तामात्याद्यैः परिवारितः / स आस्थान्यामुपाविक्षत् सुधर्मायामिवाद्रिभित् / / आजगाम चरश्चैको वेत्रिणा च प्रवेशितः / नमस्कृत्योपविश्याग्रे व्यजिज्ञपदिदं शनैः / /