________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम [65 अभिधाय विरतयोः पित्रोदेवस्तदोचिवान् / ___ भवयुक्तं भवेद् युक्तं वत्से वात्सल्यसूचनात् / / 19 / / परं तात भवे भ्राम्यन् जातः कुत्र स्थले न वै / अहमस्मि ततः श्रान्तः कान्तो न विषयो भुवि // 20 // डोलालोलाः श्रियः सर्वाः सम्पदः पदवी भियाम् / ज्ञेयः परिजनः कार्येऽरिजनः स्नेहबन्धनात् // 21 // तदलं मे विवाहेन तुच्छं मे कर्म साम्प्रतम् / हित्वा भोगफलं मत्वा तत्त्वामृतरसं भृशम् // 22 // शङ्के मनःपङ्के मज्जामि ज्ञाते ज्ञानेन संवरम् / वरं तदाग्रहस्तात नातः कार्यों हितेच्छना // 23 // मल्लिनेमिः पार्श्व इति भाविनोऽपि त्रयो जिनाः / - अकृतोद्वाहसाम्राज्याः प्रव्रजिष्यन्ति मुक्तये // 24 // श्रीवीरश्वरमश्चाहनीपभोग्येन कर्मणा / कृतोद्वाहोऽकृतराज्यः प्रव्रजिष्यति सेत्स्यति // 25 // ततश्च कर्मवैचित्र्यात् पन्था नैकोऽर्हतामपि / विचार्ये त्यनुजानीथ माऽभूत प्रेमकातराः // 26 // एवं प्रबोध्य पितरौ वर्षलक्षेषु जन्मनः / गतेष्वष्टादशस्वर्हन् जज्ञे दीक्षाग्रहोत्सुकः // 27 // सुराऽसुरनरैः सर्वाङ्गीणपर्वोत्सवे पुनः / क्रियमाणे फाल्गुनस्यामावस्यां व्रतमाददे // 28 // * अन्याऽपि षट्शती राज्ञां प्रवव्राज सहाऽमुना / सुनन्दभूपतेर्गेहे सजाता षष्ठपारणा // 29 // चकृवानवनीं पादन्यासेनाधिकपावनीम् / / भव्यान् प्रबोधयन् 'कावम्बुजानीव गवां भरैः // 30 // इतश्च पृथिवीपुर्या नृपो न्याये विशिष्टधीः / / नाम्ना पवनवेगोऽभूद् भूशास्ता स्वस्तिकृन्नृणाम् // 31 / / स तु श्रमणसिंहर्षेर्हर्षेण व्रतमग्रहीत् / तप्त्वाऽसौ दुस्तपतपोऽनुत्तरेऽभूत्सुरोत्तरः // 32 // 1. कौ = पृथिव्याम् 2. गवाम्-वाचाम् , किरणानाम् . ल. त्रि. 9