________________ महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवासुपूज्य श्रीवासुपूज्यचरितम् / द्वादशाहूचरित्रेण पवित्रीक्रियते मतिः / द्वीपस्यार्द्धपुष्करस्य प्राविदेहेष्वभाच्चिरम् // 1 // तदन्तर्विजयः श्रीमान् नाम्नाऽस्ति मङ्गलावती / गुणैरनुगुणैः पूर्णा तत्र पू रत्नसश्चया // 2 // समायितः सपनाया तत्र पद्मोत्तरो नृपः / दधानः शासनं जैनं मनसा येन निर्णयात् // 3 // तस्य भावयतः सर्व क्षणिकं भववैभवम् / रागोपशान्तिरजनि जनिता रुचिरेतया // 4 // वज्रनाभगुरोरात्तचरणः शरणं नृणाम् / अर्हद्भक्त्यादिभिः स्थानैर्जिननामार्जयजयी // 5 // ससन्तोषं त्यक्तदोष व्रतमाराध्य शुद्धधीः / विपद्य सद्यो देवोऽभूद् दशमे त्रिदशालये // 6 // जम्बूद्वीपस्य भरते स्फुरिते भरतेजसा / स्वर्ग सवर्ग कुरुते चम्पा कम्पा नृणां पुरी // 7 // प्राज्यनीत्याऽत्र साम्राज्यभोक्ता वसुमतीप्रियः / __ ईक्ष्वाकुवंशजो नाम्ना वसुपूज्यो महामहाः // 8 // जयाऽस्य महीपी रूपान्मूर्तेव जयवाहिनी' / स्थाने राज्ञां यतो नित्यं वल्लभा जयवाहिनी / / 9 / / जीवः पद्मोत्तरस्याऽथ ज्येष्ठस्य नवमीदिने / धवले वारुणे चन्द्रे तस्याः कुक्षौ ललौ भवम् // 10 // स्वप्नदर्शनमत्राऽपि वाच्यं प्राज्यजिनेशवत् / __ चतुर्दश्यां फाल्गुनस्य श्यामायां सुषुवेऽङ्गजम् // 11 // महोत्सवः कुमारीणामरीणा शक्रपूजनी / जिनोऽन्वभूद् वासुपूज्य इति नामाऽपि सान्वयम् / / 12 / / / व्यतीते शैशवे तुङ्गः स सप्ततिधनुर्मितः / यौवनेऽपि वने यातुमुत्सुको योगरागतः // 13 / / पितरौ तं तथाभूतं साकूतं पूतकर्मणि / आहूय वाचाऽब्रुवतामलं कोमलया रहः // 14 / / पुत्र चित्रं नृपाः सर्वे स्वपुत्री दातुमुत्सुकाः / तुभ्यं सभ्यगुणे रूपलावण्याद्यैर्वशीकृताः / 15 / दूताः प्रभूता आयान्ति युगपत् क्रमतोऽपि च / तद्विवाहविधिं वत्सामन्यस्वाग्रहेण नः / 16 / पूर्व मद्वंशे मुक्तामणिः श्रीवृषभप्रभुः / तेनाऽपि कन्ये धन्ये व्यूहाते परमोत्सवैः / / 17 // अस्मन्मनोरथानेवं पूरयाऽऽशु विदूरय / स्वजनानां पूर्जनानां चेतश्चिन्तां वचोऽमृतैः // 18 // 1. जयवाहिनी-jejl, सेना