________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 63 को हेतुरिति पृष्टोऽयमारल्यत् सरसगानतः / ततः प्रातस्तं निगृह्याऽस्य श्रुत्योस्त्रपु चाऽक्षिपत् // 161 // तप्तकस्तीर निक्षेपाच्छय्यापालो मृतः क्षणात् / तदा कर्म बबन्धोग्रं वेदनीयं जनार्दनः // 162 // अतुच्छमूर्च्छया राज्ये विषयेषु निषक्तधीः / क्रूरत्वाज्जीवहिंसायां रसातिशयतः स्वयम् // 163 // मृत्वा त्रिपृष्ठोऽप्यादिष्टपापैर्ययावधोगतेः / सप्तम्यां नारकक्ष्मायां मायां तत्याज नो यतः // 164 // युग्मं कौमारेऽस्य ययुवर्षसहस्राः पञ्चविंशतिः / तावन्तो भूपसामान्ये दिग्जयेऽब्दसहस्रकम् // 165 // अशीतिवर्षलौकोनपश्चाशत् सहस्रयुक् / विष्णुभावे चतुरशीत्यब्दलक्षायुरित्यसौ // 166 // अस्तोकशोकप्रारभारादचलोऽपि चलाचलः / . म्रिये वा यामि यामिन्यां काऽपि पापिपुरस्सरः // 167 // वृद्वैः प्रबोधितः सोऽधिचक्रे धैर्यमवक्रधीः / - धर्मघोषगुरोः पार्श्वे दीक्षां जग्राह साहसी // 168 // जपेस्तपोभिः स्वाध्यायैायन्नेकाकिनं निजम् / पञ्चाशदब्दलक्षाणि व्यतीत्य नित्यसंवृतः // 169 // निर्वृत्तः केवलज्ञानं प्राप्य कर्म समाप्य च / / विशुद्धबुद्धवृत्तीनां कल्याणपदमग्रगम् // 170 / / इति श्री लघुत्रिषष्टीयचरिते श्रीश्रेयांसजिनचरितम् प्रथमवासुदेवोत्पत्तिसहितं सम्पूर्णम् // ..1. कस्तीर-४थी