________________ 62 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीश्रेयांसजिन स्याज्जीवस्य परोऽजीवो तत्त्यागे सुखभाग् भवेत् / पातकं पुण्यशत्रुः स्यात् संवरस्याश्रवो रिपुः // 145 // निर्जरा वेदनाद्वैतः द्वैतं तद् बन्धमोक्षयोः / प्रदेशवेदना नित्या न नित्या रसवेदना // 146 // एवं देवगिरा केचित् श्रावका वतिनोऽपरे / सम्यक्त्वं प्रतिपेदाते बलभद्रहरी पुनः॥१४७॥ पूर्णायामादिपौरुष्यामत्यजत् देशनां प्रभुः / त्रिपृष्ठपुंभिश्चानिन्ये चतुःप्रस्थमितो बलिः // 148 // स्वाम्यग्रे तत्र चोत्क्षिप्तः सोऽग्राहयर्द्ध सुरैः पतन् / शेषस्य पतितस्याई राज्ञान्यदितरैनरैः // 149 // आकेवलात् द्विमासोनवर्षलक्षेकविंशतिम् / / विहत्य भुवि निर्वाणं मत्वा सम्मेतमागमत् // 150 // गृहीत्वाऽनशनं मासमेकं सहस्रसाधुयुक् / तृतीयायां नभःकृष्णे वासरे शिवमासदत् / 151 // कौमारे वर्षलक्षाणामेकविंशतिरीशितुः / द्विचत्वारिंशदब्दानां लक्षाण्यवनिपालने // 152 // वर्षलक्षेकविंशत्यां व्रती सर्वायुरर्हतः / चतुर्युक्ताऽशीतिवर्षलक्षाण्येवमजायत // 153 // षड्विंशतिसहस्रारवर्षषट्षष्टिलक्षकैः / शरत्शतेन चोनाया अब्दकोटेर्व्यतिक्रमे // 154 // श्रीमच्छीतलनिर्वाणानिर्वाणं श्रेयसः प्रभोः / स्वयंप्रभायां तनयो जज्ञेऽर्द्धचक्रिणस्तदा / 155 / नाम्ना श्रीविजयो जीवः श्रीशान्तरर्हतः स तु / तस्याऽनुजः पुनः सूतस्तथैव विजयाह्वयः // 156 // अन्यदा दक्षिणदिशो गान्धर्वा विष्णुमोहनम् / उपनीतैः सदा गीतैश्चक्रिरे रागभावनात् // 157 // एकदा निशि गायत्सु तेषु विष्णुः समादिशत् / निद्राणे मय्यमी गानाद् वार्या निद्रासुखच्छिदः // 158 // इत्यादिश्य प्रमीलाया' लीलायां विवशे नृपे / शय्यापालेन नावारि सरसध्वनिर्वारिधेः // 159 // शय्यापालं प्रबुद्धः सन् अपृच्छत् किमिति त्वया / निवारिता न वेत्यूचे सोऽपि स्वामिन्न वारिताः // 160 // 1. प्रमीला = निद्रा