________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् श्रेयो बुद्धयाऽध्वरहतच्छागशिस्नोपजीविनः / सौत्रामण्यां ससप्ततौ मद्यपानविधायिनः / / 118 // नैतेषु मानसो धर्मो न वा वाचनिकोऽप्ययम् / गृहिलिङ्गप्रवृतेषु मोहारोहविलासिषु / / 119 / / अनन्तकायकन्दाद्यशनैरदायको नरः / निधेश्वाऽधोगतिं याति यतस्तस्य मनोऽस्त्यधः / / 120 / / मांसं मद्य नवनीतं पक्षिवान्तं तथा मधु / महाविकृतयस्त्वेताः सचेता वर्जयेदिति // 121 // एवं जैनं वचः पीत्वा मुनयः केऽपि सुव्रताः / जज्ञिरे बलवान् विष्णुबलः सम्यक्त्वमाश्रयत् // 122 // वर्षलक्षचतुःपञ्चाशतं मासविवर्जितम् / आकेवलाद् विहारेण पुनाति स्म जिनोऽवनीम् // 123 // चम्पायामागमत् मत्वा मोक्षमासन्नमात्मनः / सहैव मुनिषट्शत्या प्रपन्नोऽनशनक्रियाम् / / 124 // शुचेः शुक्लचतुर्दश्यां विधूत्तरभाद्रयोगे / योगरोधेन मासान्ते वासुपूज्यः शिवं ययौ // 125 // अष्टादशाब्दलक्षाणि कुमारत्वे व्रते पुनः / चतुःपञ्चाशदित्यायुर्लक्षद्वासप्ततिः प्रभोः // 126 // द्विपृष्ठवासुदेवेऽपि जातघातादिपातकात् / पपात षष्ठे नरके विजयो व्रतमग्रहीत् / / 127 // अब्दलक्षं कुमारत्वे हरेः पादोनवर्जितम् / तदेव मण्डलिकत्वे दिग्जयेऽब्दशतं तथा // 128 // राज्ये सप्तत्यष्टलक्षी तथा नवशताधिका / वत्सरैकोनपञ्चाशत् सहस्रीत्यायुरूजितम् / / 129 / / पादोनकोटिमब्दानां बलो जीवन् व्रतीभवन् / विजयाह्वयसूरीन्द्रात् प्रान्ते मुक्तिमुपेयिवान् / / 130 / / इति श्री त्रिषष्टीयचरिते विनयविलासापरनाम्नि वासुपूज्यचरितं सम्पूर्णम् / ग्रं. 130 श्लोकाः