________________ 56 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीश्रेयांसजिन कामयस्तनयां प्रास्तनयोऽभूत् प्राक् प्रजापतिः / ततोऽस्याऽप्यभिधा साऽस्तु मास्तूत्पथपरः परः / / 48 / / अचलो मातरं पृष्ट्वा पुरी माहेश्वरी नवाम् / वासयामास स व्यासां प्रसस्तत्रैव तस्थुपी / 49 / मृगावत्यां समुत्पेदे देवः शुक्रदिवश्च्युतः / सिंहश्रीरविकुम्भाब्धिरत्नौघाग्नीन् ददर्श सा / / 50 / / तत्फलं भूपतिः प्राह सोत्साहः स्वप्नगीश्रुतेः / अर्द्धचक्री देवीसू नुर्भविता सवितांशुभिः // 51 // अशीतिधनुरुच्चाङ्गं कृष्णं प्रासूत सा सुतम् / पृष्ठे वंशत्रयस्थित्या त्रिपृष्ठेत्याख्यया श्रितम् / / 52 / / महाभुजौ दृढोरस्कौ धनुर्धरौ समन्ततः / अचलोऽग्रज एवास्मात् त्रिपृष्ठश्च बभूवतुः / / 53 / / नीलपीताम्बरौ तालगरुडध्वजसुन्दरौ / असहयविक्रमौ लोके चन्द्रार्काविव रेजतुः // 54 // इतश्चाऽऽसीत् पुरीरत्नपुर्या पूर्वशदीपकः / अश्वग्रीवः प्रतिविष्णुस्त्रिखण्डभरताधिपः / / 55 / / मयूरग्रीवराजस्य पुत्रो नीलाञ्जनात्मजः / चतुरशीत्यब्दलक्षसर्वायुष्मान् महाबलः / / 56 // युग्मं / चित्रं तद्विक्रमस्येव चक्रं रेजेऽर्कबान्धवम् / तत्करप्रकराद् वृष्टिवैरिकान्तादृशोभृशम् / / 57 / / श्रेण्यौ जिते अनेनाद्रेर्वैताढ्यस्य महौजसा / तीर्थत्रयी मागधादिस्तस्य वश्यैव नित्यशः / / 58 / / कः स्याद् श्यामलः कील् मम घातकपातकी / अश्वबिन्दुनिमित्तज्ञः पृष्टोऽनेनेत्यवक् च सः // 59 / / धर्षयिष्यति यो दूतं चण्डवेगं क्रुधारुणः / दारुणं वारुणाशास्थं सिंहं यो वा हनिष्यति / / 60 / / तवान्तकर्ताऽसौ भावीत्यौषीद् वाचमुद्धराम् / शालिक्षेत्रं समारोप्य जिज्ञासुः सिंहघातकम् // 61 // तद्रक्षाविधये शूरान् आदिक्षत् शालिपालिनः / नृपषोडशसाहस्री क्रमात् तस्थौ सविक्रमा / 62 / प्रजापति क्षमाप वाऽरेऽप्यरे किं ते प्रभूतधीः / चण्डवेगं दूतमितः प्राहिणोत तन्निमन्त्रणे / 63 / तदा प्रजापतिः क्षमापः सर्वगान्धर्वविद्यया / नृत्यकृत्यं दिक्षुः सन् सालङ्कारः सदस्यगात् / / 64 / /