________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 49 मानुष्यं सफलं कार्य वार्य पापप्रवर्त्तनम् / स्मार्य मुक्तिपदप्राप्तिकरणं चरणं सदा // 19 // भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च / बहुश्रुते च गच्छे च श्रुतज्ञाने तपस्विषु // 20 // आवश्यके व्रतशीलेष्वप्रमादो विनीतता / ज्ञानाभ्यासस्तपस्त्यागो मुहुर्ष्यानं प्रभावना / / 21 / / सङ्घ समाधिजननं वैयावृत्त्यं च साधुषु / अपूर्वज्ञानधरणं विशुद्धिर्दर्शनस्य च // 22 // आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः / __एको द्वौ वा त्रयः सर्वेऽप्यन्यैः स्पृष्टा जिनेश्वरैः // 23 // अष्टाशीतिर्वराहाद्या जज्ञिरे गणधारिणः / तत्तीर्थरक्षो यक्षोऽपि चतुष्करः सुरोऽभवत् / 24 / मातुलिङ्गमक्षसूत्रं स्थितं दक्षिणहस्तयोः / नकुलं च तथा कुन्तं स दधौ वामहस्तयोः // 25 // कूर्मों वाहनमेतस्य सुताराख्याऽत्र यक्षिणी / गौराङ्गी वृषभारूढा वामेऽस्याः कलशाङ्कुशौ // 26 // वरदानं चाऽक्षमालां साऽधत्त दक्षिणद्वये / : विजहे भगवान् भूमि पावयन् भावयन् जनान् // 27 / / अष्टाविंशत्यङ्गमानहीनं मासचतुष्टयात् / पूर्वलक्षं केवलित्वे व्यतीयाय जयश्रिया // 28 // नवम्यां भाद्रकृष्णस्य मूले भे योगरोधनात् / साहस्रमुनियोगेन विहिताऽनशनो जिनः // 29 // सम्मेताचलमासाद्य शिवं लेभे जिनेश्वरः / ... नवमोऽभवज्ज्ञानी शुक्लध्यानो दिवानिशम् / / 30 // कौमारे पूर्वलक्षार्द्ध तदेव राज्यपालने / अष्टाविंशत्यङ्गयुक्तं व्रते तद्धीनलक्षकम् // 31 // सर्वायुः पूर्वलक्षे द्वे सञ्जातं नवमार्हतः / निर्वाणात् परतो साधुमार्गोच्छेदस्तदाऽभवत् / 3 / स्थविरश्रावकाः पृष्टाः धर्ममूचुर्यथारुचि / शास्त्राण्यासूत्र्य दानानि विविधान्याचचक्षिरे // 33 // गोकन्यायास्तिलानां च स्वर्णायोरूप्यसद्मनाम् / शय्यायास्तुरगेभानां दानानि श्रेयसेऽभ्यधुः // 34 // . स्वस्मिन्नेव च पात्रत्वं तदन्यस्मिन्न पात्रताम् / भणन्तः सर्वलोकेषु गौरवं लेभिरे परम् // 35 // ल. त्रि. 7