________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् जिनातिशयतः कश्चिन्न प्रश्नं कर्तुमीश्वरः / सोऽप्यत्र पृच्छां युक्तां वा कृत्वा छिनत्तु संशयम् // 32 // दत्तादयो दयोपेता प्रभोस्त्रिनवतिर्मता / गणिनः शेषमत्रत्यं चिन्त्यं यन्त्रनिरीक्षणात् // 33 // तत्तीर्थरक्षी विजयो यक्षप्रत्यक्षसन्निधिम् / हंसयानश्चक्रधारी दक्षिणेऽन्यत्र मुद्गरी // 34 // नराश्रया कृशाङ्गी च भ्रुकुटी नाम यक्षिणी / दधन्ती दक्षिणौ पाणी खड्गमुद्गरशालिनौ // 35 // वामपाणौ दधानेयं फलक परशुं तथा। अर्हन्मतस्थभव्यानां पूरयन्ती मनोरथान् // 36 / / त्रिमासोनं पूर्वलक्षं चतुर्विंशाङ्गवर्जितम् / विहृत्य केवले स्वामी सम्मेताद्रिमगात् क्रमात् // 37 // सर्वयोगनिरोधेन, प्रतिमावत् स्थिरीभवन् / नभस्य कृष्णसप्तम्यां श्रवणे मासिकव्रती // 38 // सहस्रमुनिभिः सार्धं प्रपेदे परमं पदम् / पूर्वलक्षा दश स्वायुः परिपूर्याऽष्टमः प्रभुः // 39 // श्रीनाभेय जिने त्रयोदश मुनिश्रीनेमिनाम्नोनव, शान्तेदश, वर्द्धमानकविभोः सप्तोत्तरा विंशतिः / ... श्रीपार्श्वे दश, सप्तते च शशिनः, शेषाऽर्हता ते त्रयः, ... स्मर्यन्ते भवकैः मुखैकरसिकरित्थं भवाः शाम्भवाः // 40 // श्रीवर्मा, वनिपालिकः सुरवरः, सौधर्मकल्पे ततः सञ्जातोऽजितसेनचक्रिनृपतिः, कल्पेऽन्तिमे वासवः / यः श्रीपद्मधरापतिः, समजनि श्रीवैजयन्ते सुरः / स श्रेयः प्रतनोतु वः प्रतिदिनं चन्द्रप्रभस्तीर्थपः // 41 // एतन्मतान्तरं इति श्रीलघुत्रिषष्टीयचरिते श्रीचन्द्रप्रभस्वामिचरितं सम्पूर्णम् / /