________________ चरितम् ] लघुत्रिष्टिशलाकापुरुषचरितम् [45 मुद्रामभयदां शूलं दधती वामहस्तयोः / मनोरथं साधयन्ती भगवद्भक्तचेतसाम् // 31 // पूर्वलक्षे च विंशत्याः नवमास्यापि वर्जिते / कैवल्येऽधिगते स्वामी सम्मेताद्रिं समीयिवान् // 32 // प्रपद्यानशनं साधुपञ्चशत्या समं जिनः / मासान्ते कृष्णसप्तम्यां फाल्गुनस्य ययौ शिवम् / '33 // हीने विंशतिपूर्वाझ्या पूर्वलक्षे गते व्रते / सर्वायुः पूर्वलक्षाणां विंशतिर्भगवत्यभूत् // 34 // कल्याणकेऽत्र निर्वाणस्यावसेयो विधिबुधैः / शेषो विशेषात् पूजादिः स्थानान्तरसमीरितः / 35 / इति श्रीत्रिषष्टीये लघुचरिते सुपार्श्वचरितं सम्पूर्णम् // श्रीचन्द्रप्रभस्वामिचरितम् पापसन्तापहरणं करणं दर्शनोन्नतेः / चन्द्रप्रभार्हच्चरणं शुद्धं चन्द्रप्रभोपमम् // 1 // इतो द्वितीये धातक्यालक्षिते द्वीपपुङ्गवे / विजये मङ्गलावत्यां नगरी रत्नसश्चया // 2 // सद्मकीर्तेः पद्मराजस्तां शास्ति स्वस्ति सम्पदम् / . पदं रूपस्य हरिवत् गोरक्षायां ततोऽधिकः / / 3 // - एतद् गन्धर्वगानेन विगानं देवगायनः / प्राप शापमिवापत्तौ हा हा वाच्यस्तदादिमः // 4 // सङ्गीतप्रीतचेतास्स संरतेऽप्सरसां गणे / अवज्ञां कृतवान् पाने नृत्यप्रेक्षणसक्षणः // 5 // चाल्यमाने राज्यभारे मन्त्रिभिस्तन्त्रिभिश्विरम् / रागमग्नो धराधीरः शिश्राय भरतप्रभाम् // 6 // भाग्ययोगात् सोऽपि लेभे वैराग्यं भवसम्भवम् / वैभवं क्षणिकं जानन् भवे द्रव्याच्च भावतः // 7 // दत्त्वा स्वसनवे राज्यं हित्वा सान्तःपुरं पुरम् / युगन्धरगुरोः पार्श्वे संवृत्तो व्रतमग्रहीत् // 8 // विविधाभिग्रहरतो विग्रहं दूरतस्त्यजन् / निग्रहं कर्मणां कर्तुं विग्रहं तपसाऽक्षिपत् // 9 // तीर्थकुन्नामकर्माऽपि कृत्वाऽर्हद्भक्तिरागतः / स्वायुःक्षये वैजयन्ते विमानेऽनुत्तरेऽजनि / 10 / इतश्च जम्बूद्वीपान्तर्भरत क्षेत्रमध्यगा / चन्द्रानना पुरी रत्नैर्भासुरीकृतदिङ्मुखा // 11 // सुखानां खानिरेवैषा वेषालङ्कृतपूर्जना / दुर्जनानां स्पर्शमपि न चक्रे दर्शनं कुतः // 12 //