________________ 44 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीसुपार्श्वनाथ षष्ठौवेयकात् च्युत्वा सुरस्तत्कुक्षिभासुरः / अवातारीत् ततः स्वप्नाश्चतुर्दश तयेक्षिताः / / 13 / / सुतमेकफणैः पश्चफणैर्नवफणैरपि च / स्वं नागतल्पे ददृशे राज्ञी गर्भे प्रवर्तिनि / / 14 // द्वादश्यां धवलज्येष्ठे विशाखायां निशाकरे / असूत पुत्रमष्टम्यां कृष्णभाद्रेऽवतारिणम् / / 15 / / कृतसर्वोत्सवं वत्री मुमोचाऽलक्षितं जिनम् / __मातुः पार्श्वे फणिस्वप्नान् सुपार्श्वत्यभिधाधरम् / / 16 // यौवने यौवनेच्छुः सन् विरागी पित्रभिग्रहात् / नृपपुत्रीरूपायंस्त जानन् भोगफलोदयम् / 17 / शैशवेऽस्य पञ्चपूर्वलक्षीराज्ये चतुर्दश / पूर्वलक्षा अङ्गविंशत्यधिका व्यतिचक्रमुः // 18 // लोकान्तिकसुरैर्बुद्धो बोधितो भगवान् स्वतः / कृत्वा सांवत्सरं दानं महैः सामायिकं दधौ // 19 // त्रयोदश्यां सितज्येष्ठे राधायामपराह्निके / सहोर्वीशसहस्रेण प्राबाजीद् देवताचितः // 20 // महेन्द्रभूपसदने पायसात् षष्ठपारणाम् / चक्रे प्रभुः परं सेहे क्षुत्तृष्णादिपरीषहान् // 21 // सहस्राम्रवणे भूयः प्राप्तः शिरीषभूरुहे / षष्ठेन प्रतिमास्थायी केवलज्ञानमाप्तवान् // 22 // फाल्गुनस्य कृष्णषष्ठयां विशाखा शशिनाश्रिता / तदा जाते च सार्वइये सार्वः सर्वेन्द्रपूजितः / / 23 // धनुश्चतुर्दशशती युक्तैकक्रोशमुन्नतम् / चैत्यद्रुमं परीत्यानुकूल्या सिंहासनं दधौ // 24 // मात्राहतो यथादृष्टः फणी स्वप्नेऽपि तादृशः / हरिणा विहितः शीर्षे भक्तिभाक् छत्रधारकः // 25 // पूर्वसिंहासने शम्भौ स्थिते शेषदिशान्तरे / __तिस्रो दधुस्तत्प्रतिमाः सांमुख्याय सुराः श्रिया / / 26 // तीर्थ चतुर्थ्यां संस्थाप्य विधाय धर्मदेशनाम् / विहरन् मोहसाम्राज्यं शिथिलीकृतवान् भुवि // 27 / / गणिनां पश्चनवतिः प्रभोधर्मोपदेशकृत् / मातङ्गतीर्थरक्षाकृत् मातङ्गयानवान् सुरः // 28 // पाण्योदक्षिणयोबिल्वं पाशं बिभ्रत् स वामयोः / नकुलं चाकुशं शम्भोरभूच्छासनदेवता // 29 // शान्तादेवी स्वर्णवर्णा सौम्याक्षी गजवाहना / वरं दधानाऽक्षमालां दक्षिणेतरयोये // 30 //