________________ चरितम ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 43 एकादश्यां कृष्णमार्गे चन्द्रे चित्रास्थिते जिनः / सार्द्ध त्रियुक्ताष्टशत्या निवौ वतिनां तदा // 37 // सुरेशानां चतुःषष्टिः कृत्वाऽङ्गदाहनादिकम् / नन्दीश्वरे च निर्वाणमहोत्सवमपि व्यधुः // 38 / / इति श्रीलघुत्रिपष्टीये पद्मप्रभचरितं सम्पूर्णम् // श्रीसुपार्श्वनाथचरितम् श्रीसुपार्श्वप्रभोवृत्तं प्रस्तुवे वस्तुतः सुधाम् / भाग्यान्नराणां वसुधामवतीर्णा रसैरिव // 1 // धातकीखण्डसंज्ञाने द्वीपे पूर्व विदेहजे / विजये रमणीयाख्ये नगरी क्षेमसंज्ञिता // 2 // नन्दिषेणः क्षितिपतिस्तस्यां वश्यां सृजन प्रजाम् / नीत्या रीत्या गुणप्रीत्या धनैर्धनदवद् भुवि // 3 // तत्कलाशकलं मन्ये हरिणा क्षपितं किमु / धत्ते धनुर्गुणैर्युक्तं नृपः शक्रस्तु निर्गुणम् // 4 // नृपैर्वरप्रदानेन कोशोऽस्य भ्रियते धनैः / करवालस्ततः कोशसन्निधायी रिपुक्षयात् // 5 // वीतरागेऽपि रागेण शम्भौ हृच्छयजित्वरे / हृच्छय त्वं ध्रुवं ध्यानाद् विदधे विधिसन्निधेः / / 6 / / संसारं स्वार्थसंलीनं मलिनं पापकर्मणा / संत्यज्याऽरिंदमाचार्यान्तिके व्रतमुपाददे / / 7 / / अर्हद्भक्त्यादिना विंशस्थान्यां केनाऽपि चार्जयत् / स्थानेन तीर्थकृत्कर्मराजर्षिाजवर्जितः // 8 / / प्रान्ते समाधिना मृत्वा षष्ठे ग्रैवेयके सुरः / भवे तृतीये भरते काशिदेशे सरोद्भवः / / 9 / / काशिः प्रकाशितज्ञानाजिनचैत्येषु नित्यशः / . मिलद्वधूनां वक्त्राब्जेः कमलाकरतां दधौ / / 10 // . न्यायनिष्ठः प्रतिष्ठाख्योऽवनीशस्तत्र मित्रवत् / प्रतापेनाच्छिनजाइयं करसङ्करधारिणा 11 / तस्कान्ता पृथिवीदेवी देवीव पृथिवीस्थिता। / उच्चस्तनस्तनगिरिकाठिन्यं मृदुता गिरि // 12 / /