________________ 42 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्मप्रभईशानाङ्कस्थितं शक्रोऽप्यानच्य॒नं यथाविधिम् / सन्तुष्टाः तुष्टुवुर्भक्न्या भासुराश्च सुराऽसुराः / / 17 / / कृत्वा महान्तं तु महमुपमात समानयत् / वर्द्धमानः स्पर्द्धमानः शशिनाऽरुचदीश्वरः / 18 / सार्द्धधन्वद्विशत्युच्चः प्रभुलॊकानुरोधतः। मातापित्राग्रहाद् दधे दारोदारपरिग्रहम् / / 19 / / गतेषु पूर्वलक्षेषु सार्द्धाष्टमेषु जन्मतः / राजलक्ष्मी दधौ पित्रा दत्तां वित्तां तदाज्ञया / 20 / शशास पृथिवीं सार्द्धपूर्वलक्षकविंशतिः / पूर्वाङ्गानि षोडशाऽपि प्रवव्राज ततः परम् / / 21 / / दत्त्वाब्दिकं दानमीशो जम्भकैः परिपूरितः / शिबिकां निवृतिकरीमारुहयाऽऽम्रवणं ययौ / / 22 // ऊर्ज कृष्णत्रयोदश्यां षष्ठी स्पष्टीभवन्मनाः / सह राजसहस्रेणाऽपराहे व्रतमाददे // 23. // ब्रह्मस्थले सामदेवनृपगेहे सपारणाम् / पायसेनाऽकरोन्नाकिकृते दिव्यार्थपञ्चके // 24 // षण्मासी विहरन् भूमौ सहस्राम्रवणं पुनः / आजगाम प्रकामश्रीरनिश्रीकृतवास्तवः // 25 // षष्ठः शम्भुः षष्ठतपा वटाधः प्रतिमास्थितः / चित्राभे चैत्रपूर्णायां केवलज्ञानमादधे / / 26 // वप्रत्रये देवकृते पूर्वद्वारा प्रविश्य सः। सार्द्धक्रोशोच्चचैत्यद्रोरधस्तस्थौ महासने // 27 // प्रकाश्य धर्ममार्ग द्राग् विहत्य मेदिनीं प्रभुः / स्थिरीकृत्य जनान् धर्मे ह्यधर्माच्च न्यवारयत् // 28 // . भवस्थिति प्राणभृतां दुःखं गतिचतुष्टये / निवेद्य भगवान् काँश्चिदृष्टिमग्राहयत् शुचिम् / 29 / देशतो विरति केचिजगृहुर्जिनशासनात् / / केचित् पुनर्भवाद् भीता दीक्षां साक्षात् प्रपेदिरे // 30 // तत्तीर्थरक्षां कुसुमयक्षराजः प्रपन्नवान् / नीलाङ्गो मृगयानोऽयं चतुष्करविराजितः // 31 // दक्षिणः फलभृद्धस्तस्तथैवाऽभयदः परः / वामश्चैकः सूत्रधारी परो नकुलजीवभृत् // 32 // श्यामाङ्गी चाऽच्युता नाम व्यन्तरी नरवाहना। तस्य शासनदेवी यं धत्ते पाणिचतुष्टयम् // 33 // वाम एककरो धन्वी परश्चाभयदानकृत् / दक्षिणो वरदश्चैकः परो वीणाविचक्षणः // 34 // एकलक्षं केवलित्वे षोडशाङ्गया तदूनितम् / षण्मास्याऽपीति सर्वायुरभूत् पद्मप्रभप्रभोः // 35 // त्रिंशत् ते पूर्वलक्षाश्च निवृतेः समयं विदन् / मासिकानशनात् प्राप संमेताद्रौ शिवश्रियम् // 36 //