________________ 40 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीसुमति जिन सपत्नी मेऽनपत्याऽसौऽपत्यसौख्यं सनातनम् / भुजाना वद्धितः स्नेहादनया तनयस्तु मे // 50 // रक्षितः पक्षपातेन परन्तु मे शिशुः पशुः / जननी पालिकां वेति न वेत्त्यङ्गप्रसङ्गतः // 51 // बभाषे महिषी श्रुत्वा तयोर्वाचं तथोत्तरम् / भावी मदगजो ज्ञानत्रयधारी स तीर्थकृत् / 52 / पश्चमज्ञानसमये निर्णेता सदसगिरः / उभेऽपि च प्रतीक्षेथां विमात्रा स्वीकृतं तु तत् / 53 / जनयित्री विलम्बं तु न सेहे बोधिनिर्णये / राश्या सुतोऽस्या नेयं मन्यते च प्रतीक्षणम् // 54 // याहि गेहं तव पुत्रोऽसावित्युक्त्वाऽस्य मातरम् / __परां निवार्य दुष्कार्याद् भाऽशंसि प्रियामतिः // 55 // वैशाखधवलाष्टम्यां मघायां पुत्रजन्मनि / कृत्वोत्सवं नाम चक्रे भूशक्रः सुमतिः सुतम् / / 56 / / दिक्कुमारीकृतः सर्वो विधिदेवेन्द्रनिर्मितः / अभूत्तथैव तारुण्ये राजकन्या उपाययत् / / 57 / / पूर्वलक्षा दशातीताः कौमारे राज्यभाक् तत्ः / एकोनत्रिंशद् वै पूर्वलक्षा अर्काङ्गसङ्गता / 58 / दत्त्वा सांवत्सरं दानं लोकान्तिकविबोधितः / स्वयंबुद्धो निश्चयतः सुरेन्द्रविहितोत्सवः / 59 / नवम्यां राधशुक्लस्य मघायां व्रतमग्रहीत् / पूर्वाह्ने भगवान् सेहे परीषहमहाविधिम् / / 60 / / मनःपर्यववान् षष्ठपारणां पद्मभूपतेः / विदधे परमान्नेन परमेष्ठिबुभूषया // 61 // चैत्रस्य शुक्लैकादश्यां पैत्र्ये चन्द्रे जिनेशिता / केवलज्ञानवान् जज्ञे कृतषष्ठतपाः क्रमात् // 62 // धनुःषोडशशत्यग्रे क्रोशोच्चं चैत्यपादपम् / प्रदक्षिणां स्वतः कुर्वन् सिंहासनमिहाश्रयत् / 63 / अशोकद्रपुष्पवृष्टिदिव्यध्वनिविशेषिता। छत्रचामरसिंहाद्यासनभामण्डलैः समम् // 64 // दुन्दुभिध्वनितैनित्यं जागरा सागरावधि / अनाहार्यप्रातिहार्यलक्ष्मीः प्रववृतेतराम् // 65 // युग्मं तुम्बुरुर्गरुडयानो वरं शक्तिं च दक्षिणे / गदां पाशं दधद्वामे महाकाली च यक्षिणी / 66 / विहारेण प्रतिग्राममिन्द्रियग्रामजित्वरम् / प्रतिबोध्य बहून् जीवान् संमेताद्रौ शिवंगमी / 67 / आगत्य मासक्षपणी सहस्रमुनिभिः सह / नवम्यां चैत्रशुक्लस्यादित्ये नित्यपदं ललौ / 68 / दीक्षायां च पूर्वलक्षीमङ्गादशभिविना / चत्वारिंशत् पूर्वलक्षी सर्वायुः पश्चमार्हतः // 69 / / इति श्रीलघुत्रिषष्टीये चरिते सुमतिजिनचरितं सम्पूर्णम् //