________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् सिद्धार्थाऽस्य प्रिया राज्ञी शीललीलानुशालिनी / च्युत्वाऽनुत्तरदेवः स तत्कुक्षाववतीर्णवान् // 13 // राधे शुक्ले तुर्यतिथौ चन्द्रे चाऽभिजिता युते / स्वप्नाचतुर्दश गजवृषभादीन् ददर्श सा / 14 / सम्पूर्णे गर्भसमयेऽभिजितस्थेन्दौ तपस्ययम् / शुक्लद्वितीयायामिन्यां माताऽसूत सुतं जिनम् // 15 // अधोलोकाद् दिक्कुमार्योऽभ्येयुभॊगंकरादयः / अष्ट संवर्त्तवातेनायोजनं शोधनं व्यधुः / 16 / ऊर्ध्वलोकादष्टमेघंकराद्याश्चेलुरुत्सुकाः / नत्वा समातृकं देवं ववृषुर्गन्धवारिभिः // 17 // आजानु ताः पञ्चवर्णपुष्पवर्ष वितेनिरे / प्रारदिशो रुचकादाप्ता अष्टौ नन्दोत्तरादयः // 18 // अपागुरुचकतोऽष्टैव समाहारादयोऽपि ताः / आगत्य धृतभृङ्गारास्तस्थुर्गीतरसा वशाः / 19 / पश्चिमाशारुचकतोऽष्टाविलाद्यास्तदैयरुः / पाणौ व्यजनमादायऽष्टावुदग्रुचका गताः // 20 // अलम्बुसदियः पाणौ दधानाचामराङ्किताः / एवं चतस्रश्चित्राद्या विदिगुरुचकदेवताः // 21 // एत्य दीपकरास्तस्थ रूपाद्यादिकुमारिकाः / रुचकद्वीपमध्यस्थाः प्राप्ता नालक्रियाकृतः / 22 / निधाय भूम्यन्त लं तदूर्ध्व रत्नपीठिकाम् / ___ कृत्वा गायनमाचक्रुः प्रत्यग्वज दिशां त्रये // 23 // कदलीसदनान्येताः विधाय पाणिना जिनम् / .. जिनाम्यां दक्षिणगृहे नीत्वा सिंहासने न्यधुः // 24 // अभ्यंग्य तैलेन तयोद्वर्त्तनेन सुगन्धिना / उद्धृत्य नृत्यकृत्याद्यैर्भक्त्याऽभ्यरञ्जयस्तराम् // 25 // पूर्वगेहान्तरे न्यस्य जिनं मात्रा समं जलैः / - सुगन्धिभिः प्रमोदेनाऽस्नपश्चामृजन् सिचा // 26 // गोशीर्षचन्दनेनाङ्गं विलिप्योत्तमवाससा / परिधाप्य भूषणानि दिव्यानि पर्यधारयन् // 27 // नीत्वोत्तरगृहे देवं मातरं चाऽऽसनोपरि / वह्नावहाय जुहुवुश्चन्दनं विश्वनन्दनम् // 28 // भस्मग्रन्थि तयोः पाणौ बद्ध्वा ता एवमूचिरे / पर्वतायुभवेत्युक्त्वाऽस्फालयन् ग्रावगोलकौ // 29 // ततः सूतिगृहे देवमभिनीय समातृकम् / रङ्गाद् रागेण गानं च कृत्वा जग्मुः स्वमाश्रयम् / 30 /