________________ 34 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीशंभव निर्वाणसमयं मत्वा सम्मेतादि जगाम यः / तृतीयोऽहंस्तत्र शमिनां सहस्रेण सह प्रभुः / 41 / प्रपद्याऽनशनं प्राप्य पादपोपगमस्थितः / योगाभियोगं त्रिविधं रुन्धनव्ययसम्पदम् // 42 // कुमारत्वे पञ्चदश पूर्वलक्षा नृपश्रियाम् / चतुश्चत्वारिंशदेते सपूर्वाङ्गचतुष्टयाः // 43 / / पूर्वलक्षं तु दीक्षायां चतुःपूर्वाङ्गवर्जितम् / आयुःषष्टि पूर्वलक्षा शंभोर्जाता अमुष्य तत् / 4 / / यक्षत्रिनेत्रस्त्रिमुखः खड्गाब्जेन कुलं गदाम् / दक्षिणे बीजपाशाक्षसूत्राणि निदधत् परे / 45 / वरदं साक्षसूत्रं च दुरितारिश्च दक्षिणे / वामे ससाऽभयदौ दधाना स्वभुजौ वरा // 46 // // इति लघुत्रिपष्टीयचरिते श्रीशंभवचरितम् // ग्रं. 46 / / .rer श्रीअभिनन्दनचरितम् / अथाऽभिनन्दनविभोश्वरितं स्फुरितं भुवि / प्रारभ्यते सभ्यमुदेयथावगममागमात् // 1 // जम्बूद्वीपे पूर्वमहाविदेहे मङ्गलावती-। विजयस्तत्र नगरी ख्याताऽभूद् रत्नसश्चया // 2 // महाबलस्तत्र बली भूपो रिपुस्वरूपहा / शक्तित्रये समासक्तयोपायांश्च चतुरो दधौ // 3 // ज्ञानतत्त्वः स तत्त्वेन सातिरेकविवेकधीः / प्रबुद्धः शुद्धसिद्धान्ते जैनधर्मे स्थिरोऽभवत् // 4 // भवोद्विग्नो धर्ममग्नः प्रव्रज्य विमलस्य सः / सूरेः समीपे प्रशमी वनं पावनमीयिवान् // 5 // खिद्यते न निंद्यमानः पूज्यमानो न रज्यते / साम्यमेव साधुकाम्यं प्रपेदे विजितेन्द्रियः / 6 / कोपं कृतोपसर्गेऽपि प्रमोदं सोदरादिषु / न भेजे तेन चारित्री रेजे राजेव सत्कलः // 7 // कुर्वन् गुर्वाज्ञया नित्यं सत्यं ततोऽपि दुस्तपम् / तीर्थकृत् कर्म चाबध्नाद् विंशस्थान्यां प्रधानधीः // 8 // बध्नाति कर्म तत्तेषु पदैः कतिपयैरपि / मृत्वा सुरोऽभूद् विजयविमाने मानवजितः // 9 // जम्बूद्वीपस्य भरतक्षेत्रे सा कौशलापुरी / इक्ष्वाकुवंश्यः मानाथस्तस्यां संवरसंज्ञया // 10 // मार्गणाऽभिमुखः कोशाद्यशोधनप्रकाशनात् / चन्द्रहासं स्फुटीचक्रे चन्द्रहासं न कोशतः // 11 // जगत्युपरि तस्यैकः प्रतापतपनोऽतपत् / रिपावसह्यं तत् तेजो वनसेवनमातनोत // 12 //