________________ चरितम / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 33 सेनायां गर्भमासाद्य विधौ चान्द्रमसे स्थिते / फाल्गुने धवलाष्टम्यां शम्भवोऽहनवातरत् / 20 / स्वप्नदर्शनदेवादितत्फलाशंसनादिकम् / वाच्यं प्राच्यजिनस्येव रत्नस्वर्णादिवर्षणम् / 21 / मार्गशुक्लचतुर्दश्यां मृगाङ्के मार्गमाश्रिते / जरायुरक्तप्रभृतिवर्ज सा सुषुवेंऽङ्गजम् // 22 // दिक्कुमार्यश्चतुःषष्टिरिन्द्राश्च भगवत् पिता / व्यधुर्जन्मोत्सव विधिं ववृधे भगवांस्तथा // 23 // उद्वाह्य कन्याः साम्राज्यं प्रपद्य स्वपितुते / ज्ञानत्रयधरोऽभुंक्त भोगी योगोयमी शमी / 24 / स्वयंबुद्धोऽपि संसिद्धलोकस्थित्या सुरैः परैः। / लोकान्तिकैः स विज्ञप्तः सांवत्सरिकदानकृत् // 25 // अष्टलक्षयुतां कोटिं स्वर्णस्य प्रत्यहं ददत् / यथेष्टं भगवाँश्चक्रे मेदिनीमनृणां तदा // 26 // त्रीणि कोटिशतान्यष्टाऽशीतिश्योपरि कोटयः / लक्षाशीतिः सर्वदानं प्रभुः संवत्सरेऽकरोत् / 27 / मिलितेषु सुरेशेषु दीक्षाकल्याणकोत्सवे / मार्गशीर्षे मृगविधौ पूर्णायां व्रतमग्रहीत् // 28 // भवमूलं तनुस्तस्या मूलं केशा अमी ध्रुवम् / अर्हन्त्युत्खननं तेन लोचो युक्तोऽर्हतां मते / 29 / भद्राकरणवद् भद्राकरणं नोचितं ततः / कर्तनं छेदपर्यायाद् वर्जनीयं दयापरैः // 30 // भववृद्धथै केशवृद्धिस्तल्लोचनमशोचनम् / आलोचनमिदं सम्यक् शमिनां मुक्तिगामिनाम् / 31 / देवदूष्यमिन्द्रदत्तं समादाय दयापरः / विहारं चक्रवान् सर्वदेशेषु क्लेशवर्जितः // 32 // सुरेन्द्रदत्तस्य गृहे परमान्नेन पारणा / षष्ठस्याऽभूद् वृष्टी रत्नद्वादशस्वर्णकोटिजा // 33 !! जगर्ज गर्जवद्दिव्यो दुन्दुभिः सुरभिः पुनः / पुष्पवृष्टेमहामोदो वस्त्रोत्क्षेपस्तदा क्रमात् / 34 / अहो दानमहो दानमिति श्लाघा सुरैः कृता / दानस्थाने स्वर्णपीठपूजां चक्रे स भक्तिभाक् / 35/ अतितीव्रतयाऽऽस्थाय विषयेषु विहारतः / / क्षिप्त्वा घातीनि कर्माणि लेभे केवलबोधनम् / / 36 // कार्तिके बहुले पक्षे पञ्चम्यां मार्गगे विधौ / कृतं षष्ठतया सर्वज्ञातोऽभूद् भुवनत्रये // 37 // प्राग्वत् समवसरणस्थितिरस्य प्रभोर्बभौ / उपदेशेन भव्यानां बोधाद् बोधं स निर्ममे / 38 / चारित्रं ग्राहयामास कांश्चित् श्रावकसंयमम् / / / सम्यक्त्वं कांश्चन पुनः सुधाधाराश्रिया गिरा / / 39 // द्वियुक्शतं गणभृतामित्याद्योऽस्य परिच्छदः / ज्ञेयः प्रागुप्तयन्त्रोक्तश्चरिते प्रथमार्हतः // 40 // ल. त्रि. 5