________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् कृत्वाऽष्टमं तपो नागराजं तं ज्वलनप्रभम् / अभ्यर्च्य तत्प्रसादेन गङ्गां निन्ये पयोनिधिम् // 170 / / तेषां सगरपुत्राणां शरीरास्थीनि तानि च / तेन गङ्गाप्रवाहेन निन्यिरे तत्र सागरम् // 171 / / प्रत्यावृत्तो वने काऽपि केवलज्ञानिनं मुनिम् / ददर्श नत्वा पप्रच्छ पित्रादेर्युगपन्मृतिम् / 172 / पुरा सङ्घः श्रावकाणां तीर्थयात्राकृते चलन् / वसन्निशायामभ्यर्णे कुम्भकारगृहस्य सः / 173 / तल्लुणनाय तद्ग्रामलोकः स्वोकसि सज्जितः / कुम्भकारस्तन्निषेधं कृतवान् पुण्यभावितः // 174 // कुम्भकारे कार्यवशात् तस्मिन् ग्रांमान्तरं गते / स ग्रामो भूभुजा. रुद्धो ज्वालितोऽपि तदाऽग्निना // 175 // ग्रामलोकः स विपद्य जातो जानपदो जनः / विराटविषये सर्वः कुम्भकृत् स वणिग्वरः।१७६। स वणिग्देवता भूयमनुभूय भगीरथ / त्वं जज्ञे पुण्ययोगेन प्राप्तेयं भोगभाग्यभूः // 177 // / कश्चिद् रोगी वियोगी वा ददृशे दुःखमर्श सः / ‘सों ग्रामो भवान् भ्रान्त्वा जनुप्रभृतयोऽभवन् // 178 // भगवानपि सम्मेतभूधरे समवासरत् / एकाङ्गोनं पूर्वलक्षं दीक्षापालनकर्मणाम् // 179 // सह व्रतिसहस्रेण कृतानशनभावनम् / शैलेशीमजितस्वामी जगामोद्दामधामभाक् // 180 // चैत्रस्य शुक्लपञ्चम्यां चन्द्रे चान्द्रसमाश्रिते / * पर्यवस्थो योगरोधात् स शिवः शिवमप्यगात् // 181 // अष्टादशपूर्वलक्षी कुमारत्वेऽस्य जग्मुषी / त्रिपञ्चाशत् पूर्वलक्षा सा पूर्वाङ्गा नृपश्रियाम् / 182 / धर्मचक्री द्वादशाब्दी व्यतिचक्राम नाम सः / छामस्थ्ये केवलज्ञाने पूर्वलक्षमभूत् पुनः / 183 / स महर्षिः समुद्घातं कृत्वा प्राप परं पदम् / निर्वाणोत्सवमाधाय देवाः स्वं पदमासदन् / 18 / / श्रीहेमचन्द्रोदितजैनवाक्याम्भोधेविंशोधेरिव शुद्धबोधे / उदृत्य मेघेन भृते सुधायाः कुम्भोपमे पर्व बभौ द्वितीयम् // 185 // . इति श्री अजितस्वामिचरितं सगरचक्रिचरितसहितं सम्पूर्णम् / ग्रं. // 185 //