________________ 30] . महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्रीअजितस्वामिसगरचक्रि यो जन्मवान् स मृत्युभाग जगतः स्थितिरीदृशी / ___ न लध्या केनचित् सेयं बलिना छलिनाऽथवा // 154 // धेहि धैर्य मा विषीद सर्वसाधारणे पदे / पण्डितानां हि पाण्डित्यं नित्यमेतद् विचिन्त्यताम् // 55 // एवमुक्ते नृपेणाऽथाऽभिहितः सुतसंक्षयः / तं निशभ्य नृपः शोकाक्रान्तोऽरक्षि द्विजन्मना // 156 // . मम धैर्य धृतिं त्वं चाऽदिशन् स्वयमिहाऽस्पृशन् / न लज्जसे महत्त्वं हि महतां सद्धनं मतम् // 157 // त्वमसि मापते विश्वमोहनिद्राविवस्वतः / __ ऋषभस्वामिनो वंश्यो भ्राता चाऽस्यजितप्रभोः // 158 // ज्ञानात् शोकपिधानेन विधानेनोत्तमाङ्गिनाम् / कृतेऽपशोके भूपाले लोकेनाऽलोकि शस्त्रिणाम् (?) // 159 // पदे पदे जनपदे जज्ञे शोकास्पदं तदा / कांदिशीकाः प्रजाः सर्वाः प्रत्यनीका इव श्रियः / 160 / संसारललितं मोहच्छलितं कलितन्त्रकृत् / विचार्यमतिर्भूषादिकत्यागं तदेहत // 161 // अस्मिन्नवसरे कश्चिदैन्द्रजालिकभूसुरः / वाद्धिसीमानमुत्सृज्यागच्छज्जलमदीदृशत् // 162 // ततश्च विश्वसंहारशोकाद्राजाऽपि सत्वरम् / यावद् झंपां दातुमुत्कोऽबध्नाद् वस्त्रं कटेस्तटे // 163 // प्लवङ्गम इवोत्पत्य यावद् झंपां चिकीर्षति / राजा व्याजादृते सिंहासनासीनं स्वमैक्षत / 164i इन्द्रजालं दर्शयित्वा भवरूपं निरूपयन् / ममोपकारं कर्ता त्वं मोहारोहव्यपोहतः / 165 / मन्त्रिभिः पौरवर्णैश्च नानादृष्टान्तनिदर्शनैः। प्रबोधितः सोऽधिगतो बोधि सगरचक्रभृत् // 166 // त्यक्त्वा पर्यन्त निस्सारं संसारं स्वार्थमर्जये / विमृश्येति स्वविभवं संत्यक्तुं यावदुद्यतः / 167 / तावद् गाङ्गजलोत्कर्षात् प्लाव्यमाना जना जवात् / एवं विज्ञपयामासू रक्ष रक्ष जलाब्धितः // 168 // परिषापूरणान्निर्यत् जलं दण्डकृताध्वना / समुद्रं नय हे पौत्र भगीरथ ममाज्ञया // 169 //