________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [29 ऋषभस्वामिनो बिम्बमहतां भाविनामपि / स त्रयोविंशते रत्नग्रावभिश्चाप्यकारयत् // 137 // चारणश्रमणैस्तानि बिम्बानि प्रत्यतिष्ठिपत् / ___ बाहुबल्यादिबन्धूनां स्तूपान् मूर्तीश्च सोऽकृत // 138 // कश्चिदासातको मा भूत् तुच्छधीस्तुच्छकालजः / इत्यष्टसोपानकृतेरष्टापद उदीर्यते // 139 // नत्वा विम्बानि तेऽभ्यर्च्य तीर्थरक्षाविधित्सया / दण्डरत्नेन परिखां तनयाश्चक्रिरे ततः।१४०। रजःपातान्नागलोकभवनोपद्रवे सति / चुकोप तेभ्यो ज्वलनप्रभश्चक्रिषु चक्रभृत् // 141 // तस्य प्रसत्तिमाधातुं निवृत्ताः खननाच्च ते / नागराडपि शान्तोऽगात् स्वं पदं तानिवार्य सः // 142 // खातमेतज्जलमृते रजसा पूरयिष्यते / तदस्यां गाङ्गसलिलं नयाम इति चिन्तनात् / 143 / वालिते गाङ्गसलिले जलोपद्रवतोऽहयः / ज्वलनप्रभमाचख्युः सोऽप्येत्यैतानदीदहत् / 144 / तद् दृष्ट्वा सैनिकाः सर्वे चिन्तयामासुराशु ते / . मुखानि दर्शयिष्यामः कथं राज्ञेऽक्षतास्तनौ // 145 // स्वाङ्गान्यग्नौ दधतस्तान कश्चिद् विप्रः सुधीरधीः / निवार्यानार्यकार्याद् वै विनीतां नगरी ययौ // 146 // मृतं बालं समादाय पूत्कुर्वन् नृपतेः पुरः। उवाचाऽवन्तिदेशस्य ग्रामे वसामि साम्प्रतम् / 147 / * गृहं मुक्त्वाऽध्यायकृते गतो ग्रामान्तरेऽन्यदा / तत्राऽरतिरकस्मान्मे प्रादुर्भूता रुजार्तवत् 148 // मया गृहं गते नाथाऽश्रावि वृत्तं सुदुःश्रवम् / - त्वत्सनुरहिना दष्टो मृतो यासि व साम्प्रतम् ? // 149 // अतुच्छमूर्छामापनस्तदाहं दाहतोऽधिकम् / __मेने दुःखं जनः सर्वो व्याकुलक्लेशभागभूत् / / 150 // कुलदेवी तदाऽऽगत्याऽवादीत् किं व्याकुला इह / यद्गेहे कोऽपि न मृतस्तद्रक्षातोऽस्य जीवनम् // 151 // मान्त्वा सर्वत्र तद्रक्षाऽप्राप्त्या त्वां समुपस्थितः / तामानय यतः पुत्रजीवनादेधि जीवदः।१५२। सगरः प्राह हे धीर कातयं ते किमीदृशम् / सर्व कालवशं लोके नाऽयं केनाप्यतीयते / 153 /