________________ 28 ! महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्रीअजितस्वामिसगरचकि त्वं ममाभूदङ्गजन्मा रतिवल्लभसंज्ञया / वत्स दिष्टयाऽद्य दृष्टस्त्वं गृहाण मद्धनादिकम् // 119 // लवणान्धौ देवसेव्यो राक्षसद्वीपदीपकः / तन्मभ्येऽस्ति त्रिकूटाद्रिस्तुङ्गत्वे नवयोजनी // 120 // पञ्चाशद्योजनपृथुलका तदुपरि स्थिता / मद्वासिताऽस्ति नगरी नगरीतिगृहान्विता // 121 // षड् योजनानि भूमध्यमतिक्रभ्य चिरन्तनी / शुद्धस्फाटिकवप्राङ्का नानामणिमयालया // 122 // सपादयोजनशतप्रमाणा प्रवरा पुरी। मम पाताललङ्केति सङ्केतितधनोदया // 123 // निस्सीमप्रणयाद् भीमस्तस्मै हारं मणीमयम् / ददौ विद्यां राक्षसी च जिनसेवाफलं ह्यदः // 124 // तं राज्ये स्थापयामास भीमः श्रीमानसीमगीः / घनवाहनतो वंशो राक्षसाख्यः प्रवृत्तवान् // 125 // सगरस्य सुताः षष्टिसहस्रा अभवन् क्रमात् / एकनार्या बहूनां चेत्युद्दिष्टं दृश्यते न यत् // 126 // ते च तारुण्यलीलायां ललन्तश्चक्रवर्तिनम् / स्वं तातं प्रार्थयामासुः क्रीडां भरतसीमनि // 127 // राज्ञादिष्टाः स्वैरममी रमन्ते स्म पुरात् पुरे / वनाद् वनान्तरं जग्मुर्मनसा रभसा रसात् / / 128 // ग्रामाकरपुरद्रोणमुखखेटादिषु व्यधुः / जिनार्चा विचरन्तस्ते माला विद्याधरा इव // 129 // भुञ्जाना बहुधा भोगान् ददाना बहुधा धनम् / सुहृज्जनान् प्रीणयन्तो विनिघ्नन्तो द्विषज्जनान् // 130 // . तैदृष्टेऽष्टापदगिरौ पृष्टे चैतस्य कारणे / ऊचिरे सचिवा एवं पुराऽभूद् वृषभः प्रभुः // 131 // भवद्वंशस्यादिकरः पुण्यनैपुण्यमप्यतः / तस्यात्र निर्वाणमभूद् भरतोऽस्याग्रिमोऽग्रजः // 132 // यादृग् द्रव्यं तथा स्थानं सेव्यते भव्यभावनात् / तथैव परिणामः स्यात् प्राचां वाचां बलादिति // 133 // धीमतां श्रीमतां मुख्यः प्रासादं सुन्दरं व्यधात् / तत्र सिंहनिषद्याख्यमाद्यश्चक्री प्रसद्य सः // 134 // प्राणीनां स्मरणं ध्यानं पूर्व सालम्बनं मतम् / धर्मध्याने वाचनादेरालम्बनमतः श्रुते // 135 // वाचनाद्यक्षरन्यासाज्जायतेऽस्मात् शुचिर्मतिः / निर्दोषा चेन्मनीषा स्यात् तस्यां श्रद्धा रुचिः शुचिः // 136 // .