________________ 26 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्रीअजितस्वामिसगरचक्रि इतश्च सगरस्यापि शस्त्रशालान्तरे स्फुरत् / चक्ररत्नं समुत्पेदे पूजां चक्रेऽस्य चक्रिराट् / / 86 // व्यायाममानं तच्चक्रं, छत्रं, दण्ड, स्तृतीयकः / द्वात्रिंशदगुलः खड्ग चतुरगुलमानभृत् // 87 // सुवर्णकाकिणीरत्नं५ मणिः स्तावान् प्रमाणतः / द्विहस्तमानं चर्माऽपि७ पुरोहित, गजाश्वविसकम् // 88 // . सेना11 गाथा१२ पत्तिरत्ने वार्द्धकिः१३ स्त्री१४ चतुर्दश / रत्नान्यासँस्तद्धलेनाऽसाधयद् भरतावनीम् // 89 // यथा जयति चादीशे भरतश्चक्रभृत् जयी / द्वितीयेऽर्हति तद्रूपो द्वितीयः सगरोऽप्यभूत् // 90 // भरतस्योत्तरार्द्धऽस्याप्यासीन्मेघाद्युपद्रवः / शान्ते देवगणे सर्वे भेजुराज्ञां च चक्रिणः // 91 // द्वात्रिंशतैः सहस्त्रैश्च वर्षाणां समसाधयत् / षट्खण्डं भरतं सर्व सगरः सागरावधि // 92 // जित्वा भरतवद् भूमि भारती सह सेनया / विनीतायाः परिसरे शिबिरं स्वं न्यवीविशत् / / 93 // .. तत्राऽन्यदा दुविनीतार्वणा नीतो वनान्तरे / श्रमाधिपन्ने तुरगे सरसि स्नातवानयम् // 14 // ददर्शाऽब्जदृशं काश्चित् मिथः प्रेक्षणतस्तयोः / अनुरागा कामपीडा जज्ञे व्रीडापहारिणी // 95 // तस्याः सखी चक्रिपृष्टा प्राह नाथ कथां शृणु / विद्याधरोऽभूद् वैताढथे पुरे गगनवल्लभे // 96 // सुलोचनस्तस्य पुत्रः सहस्राक्षः पराक्रमी / सुकेशा दुहिता सैषा चारुवेषा सुरूपभाक् // 97 / / नैमित्तिकेन चैकेन जातमात्राऽपि वर्णिता / स्त्रीषु रत्नं रत्नमेषा भवित्री चक्रवर्तिनः // 98 // रथनुपूरराज्येन पूर्णमेघेन प्रार्थिता / पित्रा न दत्ता तां लातुं पूर्णमेघोऽचलबलैः // 99 // जायमाने रणे पूर्णमेघेन हि सुलोचनः / हतस्तत्र सहस्राक्षः प्राणश्यद् वनेष्विह // 10 // चक्रिणोऽभ्यागमं मत्वा सहस्राक्षोऽपि चाऽऽगतः / तां विवाह्य चक्रिणा च तं वैताढयेऽभिनीतवान् // 101 // चक्री न्यस्य सहस्राक्षं स्वराज्ये पैतृके तदा / नवं स शिबिरं प्राप्य सुखी स्त्रीरत्नलाभतः // 102 //