________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 25 म . चतुर्दश धनुः शत्याधिका गव्यूतिमुन्नतः / छत्रत्रयीं जिनपृष्ठे भामण्डलं दधुः सुराः / / 71 / / पादौ न्यस्यन् सुवर्णाजे पूर्वद्वारे प्रविश्य सः / नमस्तीर्थायेति वदस्तस्थौ सिंहासने जिनः / / 72 // चतुर्दिक्षु स्वामिबिम्बचतुष्टयं चतुष्टये / व्यधुर्देवा व्यन्तरास्ते तादृशं तत्प्रभावतः // 73 // तत्राऽऽग्नेय्यां साधुदेवीश्रमण्यः पर्षदि स्थिताः / नैर्ऋत्यां भवनज्योतिय॑न्तरस्त्रीनिषीदनम् / / 74 / / त्रयोऽपि ते सुरास्तस्थुर्वायव्यामीशदिश्यपि / वैमानिका नरा नार्यस्तिष्ठन्ति स्म जिनं नताः / / 75 / / पञ्चत्रिंशदतिशयैर्वाचो वाचस्पतिस्तुतैः। चतुस्त्रिंशदतिशयैः परैः स परमेश्वरः // 6 // विहरन् क्ष्मातले बोधं जिनेषु भावयन् भृशम् / जीवन्मुक्तिदशामेत्य शुशुभे स शुभाशयः // 77 // युग्मं सगरे वन्दितुं प्राप्ते लोकाकोकप्ररूपणम् / कर्मबन्धकर्ममुक्तिहेतुमाख्यज्जिनेश्वरः // 78 // तदानी च सुमित्रोऽपि पुरा भावयतित्वभृत् / दीक्षां जग्राह सोत्साहः साहसात् श्रीजिनान्तिके // 79 // आसन् गणभृतः पश्चनवतिप्रमिताः प्रभोः / ' इत्यादि बोध्यं पूर्वोक्तयन्त्रन्यासाऽवलोकनात् // 80 / / तत्तीर्थरक्षादक्षोऽभूद् यक्षः श्यामश्चतुर्मुखः / महायक्षो गजारूढो भुजाष्टकविराजितः // 81 // पाशी, च मुद्गरी, साक्षसूत्र, पाणिर्वरं ददत् / चत्वारोऽमी दक्षिणाः स्युर्वीजपूराभयाङ्कुशैः // 82 // शक्त्या युक्ता वामहस्तास्तथाऽजितबला सुरी / -चतुष्पाणी स्वर्णवर्णा पाशिता वरदायिका / / 83 // दक्षिणद्वितये बीजपूराङ्कुशधरा परे / आहती शासनदेवी बभूव भविनां हिता // 84 // धर्मचक्रं देवकृतं तस्मिँश्च चलिते वरे / धर्मचक्री प्रतस्थेऽर्हन् अद्वितीयो द्वितीयकः / / 85 // त्रि.४