________________ 24 ] महोपाध्यायश्रीमन्मेषविजयविरचितम [श्रीअजितस्वामिसगरचक्रि चतुःषष्टिसुराधीशैः सगरेण कृतोत्सवः / सुप्रभां शिबिकां दिव्यामारुह्योपवनं ययौ // 53 // विहाय रत्नभूषादि रत्नत्रितयलिप्सया / देवदूष्यं शक्रदत्तमंसे न्यस्याऽपरिग्रहः // 54 // कृतषष्टतपा माघे शुक्ले नवमिकादिने / प्राब्राजीत् ब्राह्मथनक्षत्रे सप्तच्छदतरोस्तले // 55 // युग्म संसारमूलमामृश्य मोहजालमिवापरम् / उच्चखान कचत्रातं पञ्चमुष्टिभिरीश्वरः // 56 // सिद्धान् नत्वा स्वीचकार सामायिकमनन्यधीः / मनःपर्यवमुत्पेदे तदा ज्ञानं तु तुरीयम् / / 57 // अभूत सहस्रभूपानां दीक्षा श्रीप्रभुणा समम् / पारणा षष्टतपसो ब्रह्मदत्तनृपौकसि // 58 // रत्नपीठादिकं तत्राभवद् वृषभदेववत् / तदभ्यच्यैव भावेन भोजनं कुरुते जनः // 59 / / दुष्करं विदधानोऽर्हन् तपः क्षिप्त्वान्तरं तमः / गुणस्थानक्रमारोहात् केवलज्ञानमाप्तवान् / 60 // पौषस्य शुक्लैकादश्यां षष्ठे तपसि केवली / लोकालोकस्थितं वस्तु व्यालोकत सपर्ययम् // 61 // शक्रादेशाद् वायुदेवाः क्षेत्रमायोजनं व्यधुः / नीरजस्कं मेघदेवाः ववृघुजलमुत्तमम् // 62 // सुवर्णरूप्यमणिभिर्वबन्धुः पीठमुन्नतम् / ग्रामारामादिनिर्बाधं तदधस्तदबीभवत् / 63 // षड्ऋतवः पुष्पवर्ष सहर्ष ते वितेनिरे / रराज राजतो वप्रः कृतः सभवनामरैः // 64 // कपिशीर्षाण्यस्य हैमान्यभूवन ज्योतिषां सुराः / द्वितीयं तं स्वर्णमयं चक्रुवैक्रियकर्मणा / / 65 / / रात्नानि कपिशीर्षाणि तस्योपरि बभुः पुनः / वैमानिकसुराः सालं वितेनुस्ते तृतीयकम् / / 66 / / माणिक्यकपिशीर्षाणि ददर्शादर्शवदिशाम् / प्रतिवधं च चत्वारि द्वाराणि स्युः शुभागमे / 67 / प्रतिद्वारं चतस्रः स्युर्वापिकाः स्वादुपाथसां / सर्वत्र धूपघटिका देवैर्मुक्तास्ससौरभाः // 68 / / ऐशान्यां मध्यमे वप्रे देवच्छन्दः सुरैः कृतः / विश्रामहेतुर्देवस्य सुवर्णमणिकुट्टिमः // 69 / / तत्र सिंहासनं हैमं चामरे चाऽमरैः कृते / रत्नवप्रस्य मध्येऽभाच्चैत्यदुर्व्यन्तरैः कृतः // 70 //