________________ 20 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीभरतचकि-. हरिस्त्रिपृष्टस्त्वं भावी भरते चक्रभृत् पुनः। प्रियमित्रो विदेहेषु चरमोऽहंश्च पूज्यवाक् // 15 // नास्मत्कुलादन्यदुच्चं कुलं किमपि बोध्यते / भविता यत्र पुण्येन त्रयोविंशतिराहती // 16 // पितामहो नस्तीर्थेशः प्रथमश्चक्रभृत् पिता / अहं विष्णुविष्णुश्च नासत्या गीर्यतोऽर्हताम् / / 97 // नीचैर्गोत्रमितो बद्धमनेन ध्रियता मदम् / कपिलस्य बोधभावे प्रश्ने धर्माश्रये कृते // 98 // अत्रापि धर्मस्तत्रापीत्येवं वाक्यं च जल्पता / सागराणां चैककोटाकोटिबद्धा भवान्तरैः // 99 // .. स्वामिनः प्रथमस्याऽथ निर्वाणेऽष्टापदाचले / चैत्यानि कारयामास चक्री वर्द्धकिना तदा // 100 // भ्रातृणां नवनवत्याः प्रतिमा अप्यकारयत् / शुश्रूषमाणां स्वां मूर्ति स्तूपानुच्चैर्ध्वजाङ्कितान् // 101 // सांसारिकसुखान्येवं भरतोऽभुङ्क्त शक्तिमान् / स्वामिनोक्तदिनात् पूर्वपञ्चलक्षीमतीतवान् // 102 // अन्यदा स्नातलिप्ताङ्गोऽलङ्कृतो रत्नभूषणैः / स्वं द्रष्टुं दर्पणगृहे प्रविष्टः शिष्टधीरथ // 103 // एकामङ्गुलिका भूषामुक्तां विलोकयन् नृपः / सर्वाङ्गमनलङ्कारं कुर्वश्चिन्तयति स्म सः / / 104 // धिक् संसारमसारं तत् तनुं बहिस्तु शोभनाम् / __अन्तर्व्याधिभयाकीर्णा विशरारुं क्षणादपि // 105 // एवं भावनयाऽऽरूढं क्षपकश्रेणिमात्मना / केवलज्ञानमापेदे विजहरे पूर्वलक्षकम् // 106 // कौमारे पूर्वलक्षाणां व्यतीता सप्तसप्ततिः / मण्डलित्वे तु शरदां चक्रिणोऽभ्यगात् // 107 // तदूनपूर्वलक्षाणि षट् चक्रित्वे ययुस्ततः / मासान्तेऽष्टापदगिरौ प्रषेदे शिवमव्ययम् // 108 / / श्रीहेमचन्द्रोदितजैनवाक्याम्भोधेविंशोधेरिव शुद्धबोधे / उद्धृत्य मेघेन भूते सुधायाः कुम्भोपमेवादिम पर्व पूर्णम् // 109 // - इति श्रीविष्टीये भरतचक्रिचरितं सम्पूर्णम् / ग्रं. 109 /