________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् कन्या नृपा नाटकानि स्युत्रिंशत् सहस्रकाः / तावन्त एव विषया श्रेणयोऽष्टादश प्रभोः // 76 // रथा द्विपा वाजिनोचाऽशीतिलक्षाश्चतुर्युताः / द्वासप्तति सहस्राश्च पुराणामस्य शासने // 77 // लक्षमेरुसहस्रोनं पाता द्रोणमुखान्यपि / पत्तनानां सहस्राँश्चाऽष्टचत्वारिंशतं तथा // 78 // कर्बटानां मडम्बानां चतुर्विंशसहस्रशः / आकराणां सहस्रान् स विंशतिं बुभुजे जयी // 79 // असौ खेटसहस्राणां षोडशानां सदाऽविता / चतुर्दशसहस्राणि सम्बाधानां ररक्ष सः // 8 // सूदा बभूवुरेतस्य स त्रिषष्टिशतत्रयम् / अन्त:पानि षड्युक्तपश्चाशत् संख्यया बभूः // 81 // रत्नाकरा यक्षमानास्त्रिकोटीहलमन्त्रिणाम् / निवासादेशमानेन ध्वजाः स्युर्दशकोटयः // 82 // द्वीपान्तराणि हलवत् स्युः षण्णवतिकोटयः / ग्रामाश्वपतयः सर्वे त्रिलक्षा दीपधारकाः // 83 // पञ्चलक्षाः छत्रधराः चतुष्षष्टिसहस्रकाः / बन्दिनां रमणीनां च लक्षा महानसास्ततः // 84 // सहस्राः स्वर्णखानीनां नवयुग्नवतिप्रमाः / देशान्तरान्तरद्वीपास्तन्माना एव चक्रिणः / / 85 / / कुराज्यकोनपञ्चाशत् प्रमाणितस्य सेवने / इति चक्रभृतोलक्ष्मीविललास सुधांशुवत् / / 86 / / स्वसारं सुन्दरी पश्यन्नेकदाङ्ग कृशां भृशम् / - नियोगिनः प्राह-किमियमवस्थामीदृशीं गता / / 87 / / तेऽप्युचुर्नाथ ! दीक्षायां समुत्सुकाऽपि भूभुजा / .. करिष्ये वनितारत्नमेतामिति निवारिता / / 88 // आरभ्य दिग्जयदिनमाचामाम्लानि तन्वती / जातेदृशी कशीभूय त्वदाज्ञामीहते पुनः // 89 // : हा वृथा विहितो धर्मान्तरायोऽस्या नृपेण तत् / दीक्षां जिघृक्षसीत्युक्ता प्रात्राजीत् सा तदाज्ञया // 90 // दूताहूता भ्रातरोऽन्ये प्राप्ता भगवदन्तिकम् / प्रशान्ता भगवद्वाचा प्राव्रजन् जनतानताः // 11 // प्रागुक्तरीत्या वोदाहुबेली बाहुबली नृपः / जित्वा चक्रधरं चान्तश्चरं जिग्येऽहसां भरम् // 92 // भरतस्याङ्गजो नाम्ना मरीचिर्जगृहे व्रतम् / शीतातपतपः क्लान्तस्त्रिदण्डित्वमदीधरत् / / 93 // अयं भावी जिनश्वान्त्यो वर्द्धमान इति प्रभोः / वाच ननाम तं द्रव्यजिनं प्रोचे पदत्रयीम् // 94 //