________________ 10 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीऋषभदेव शिल्पमप्युपदिष्टं च ततः पुत्रशतं विभुः / राज्येऽभिषेचयामास भरतं स्वपदेऽधिपम् // 148 // राज्यं तक्षशिलापुर्याः श्रीबाहुबंलिने ददौ / देशानंगकलिङ्गादीन शेषपुत्रानदात् स्वयम् / / 149 // कुमारत्वे प्रभोः कल्पवृक्षास्तत् कल्पवृक्षताम् / लोकाऽभीष्टार्थदानेन ध्यायन्तोऽदृश्यतां ययुः // 150 // कल्पवृक्षश्रियं देवे साधिकां वीक्ष्य युग्मिनः / अप्राक्षुर्नाथ नो वृत्तेरुपायं कथयाधुना // 151 // केऽपीक्षुभोजिनः केचित् कन्द, मूल, फलाशिनः / पत्र, पुष्पाऽपक्कधान्याजीर्णादग्रे स्थिताः विभोः // 152 // घृष्ट्वाऽन्नं हस्तयोर्भुङ्ग्ध्वं निस्तुषीकृत्य तन्दुलान् / जलेनाीकृत्य किञ्चिदित्युपादिशदीश्वरः // 153 // कालान्तरे मिथो वंशघर्षणाद् वह्निमुत्थितम् / अज्ञा रत्नमिवापूर्व गृह्णाना ज्वलिताः करे // 154 // :: तस्याऽपराधं देवाय ज्ञापितुं समुपस्थिताः / ततो भगवताऽज्ञायि वहिर्जज्ञेऽत्र भासुरः // 155 // स्वयं हस्तिनमारुह्य मृदमानाय्य तत्करात् / / कुम्भं विधायाऽप्रतीपाग्नौ पक्त्वा भुञ्जन्तां जनाः // 156 // कृत्वा लोकोपकाराय व्यवहारविधि प्रभुः / पूर्वत्रिषष्टिलक्षांते प्रात्राजीत् प्रथमो जिनः // 157 // दानं सांवत्सरं यावद् दत्त्वा चैत्रासिताष्टमे / दिने सुदर्शनां दिव्यां शिबिकामधिरूढवान् // 158 // दिनस्य पश्चिमे भागे कृते शक्रमहोत्सवे / सिद्धार्थोद्यानकंकेल्लिवृक्षाऽधस्त्यक्तवैभवः // 159 // एकां शक्रोपरोधने जटां ग्रीवाविभूषणाम् / रक्षित्वा कृतवान् लोचं चतुर्मुष्टिकमीशिता // 160 // चतुः सहस्रोग्रभोगराजन्यक्षत्रियैनरैः। समं समङ्गलध्वानं सामायिकमुपेयिवान् // 161 // लोको दानमजानानो भगवानपि मौनवाक् / ___ स्थातुं न शक्यते भुक्तिं विनापि च परस्परम् // 162 // विमृश्यापृच्छय कच्छं च महाकच्छं महत्तरम् / पुनगृहाश्रयोऽयुक्तः शिष्याः सर्वे वनं श्रिताः // 163 // युग्मम् /