________________ 336 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवर्धमान-- - प्रातः स भगवान् तत्र नगरे समवासरत् / नत्वा दत्त्वा केशिने स्वं राज्यं राजा दधे व्रतम् // 534 // उत्पेदेऽकालप्रान्तानाहाराद् व्याधिर्महाँस्तनौ / गोष्ठेषु विहरन् वैद्यवचसा दधि चाहरत् // 535 // आगन्तुकं वीतभये निशम्योदायनं नृपः / केशी सामन्तमन्त्र्यायैः प्रेरितो द्वेषमावहत् // 536 / सविषं दधि गोपाल्या दापितं तेन केशिना / प्रभावती सुरो हत्वा प्रीत्या तं प्रत्युवाच च / 537 / अधुना दधि न ग्राह्यं साहाय्यं क्रियते मया / विषापहारमेवं स चक्रे त्रिस्त्रिदशो मुदा // 538 // देवप्रमादेऽथाऽहाषीद् दधि रोगोपशान्तये / मत्वा विषं चाऽनशने स्थितस्त्रिंशदिनी मुनिः // 539 // उत्पन्न केवलज्ञानो विपद्य सिद्धिमाश्रयत् / ततः परं कोऽपि भूपश्चारित्रं न प्रपन्नवान् / 540 / देवकोपाद् वीतभयं पुरमाच्छादि रेणुना / एकं शय्यातरं कुम्भकारं रक्षिष्यतेऽमरः // 541 // तदोदायनभूपस्य सुतोऽभीचिस्तु कूणिकम् / मातृस्वसेयमाश्रित्य श्राद्धधर्ममपालयत् / 542 / प्रान्ते संलेखनां कृत्वा पितृवैरधिया मृतः / असुरोऽभूत् स पल्यायुर्विदेहं प्राप्य सेत्स्यति // 543 / / वीरनिर्वाणतो वर्षशतषोडशके गते / नवषष्टियुते भावी नृपः कुमारपालकः // 544 // स वज्रशाखामुख्याच्च श्रीहेमचन्द्रसरितः। आर्हतं धर्ममासाद्य कर्ताऽर्हच्छासनोन्नतिम् / 545 प्रतिमां रजसा छन्नां राजाऽऽविष्कारयिष्यति / __आनयिष्यति सोत्साहं पुरेऽणहिलपाटके // 546 // अथाऽभयकुमारोऽपि प्राबाजीत् पितुराज्ञया / कूणिकः श्रेणिकं काष्ठपञ्जरे वैरतोऽक्षिपत् // 547 // चेल्लणा पिण्डिकामेकां सङ्गोप्य वेणिबन्धने / ___ कुल्माषाणां ददेच्छन्नं तयाऽजीवत् स भूपतिः // 548 // कूणिकस्य सुतो जज्ञे नाम्नोदायीति शैशवे / ____ एकदा मूत्रितं स्थाले भोजनस्याङ्कगामिना // 549 // दूरे कृत्वा कियद् भोज्यं तच्छेषभोजनात् प्रसूः / कूणिकेनोदिता काऽपि सूनोः स्नेहो न चेदृशः // 550 //