________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् तयोचे कुकुटेनाऽयमगुलस्तेऽपि चर्वितः / पक्कस्तत्पूयमापीय पिताऽपि कृतवान् सुखम् // 551 // ततः प्राग्वैरसंपूर्तः स्नेहानिगडविच्छिदे / लोहदण्डमुपादायाऽऽगच्छन् दृष्टोऽथ कूणिकः // 552 // श्रेणिकेन तदाऽऽधायि विषं तालपुटं मुखे / मृत्वाऽगात् सोऽपि नरके प्रथमे नियतायुषा // 553 // कूणिकोऽस्ताकशोकेन म्रियमाणश्च मन्त्रिभिः / जीर्णपत्राक्षरव्याजाद् राजाऽऽरक्षि तदीक्षणात् // 554 / / दत्तं पिण्डादि पुत्रेण मृतोऽपि लभते पिता / - इत्यालेख्य जीर्णपत्रं भुवः प्रोत्खाय दर्शितम् // 555 // राजा स्वयं ददौ पिण्डं पितुविरहशान्तये / प्रवृत्तं तत् पिण्डदानं जने तदादि सर्वतः / 556 / श्रेणिकस्यासनं शय्यां पश्यता शोकशकुना / विद्धन तत्र न स्थातुं शेके कूणिकभूभुजा // 557 // नवीना नगरी चम्पा स्वसुखार्थ निवेशिता / कालान्तरे स वैशालीं बभञ्ज रणधारणात् // 558 // जितकाशी कूणिकोऽपि चम्पायां श्रीजिनागमे / महान्तमुत्सवं चक्रे स चोंक्तश्चौपपातिके // 559 // पप्रच्छ देशनाप्रान्ते नाथ यः कामभोगयोः। . विरराम न तस्य स्यात् कीदृशी भूभुजो गतिः // 560 // स्वाम्याह तद्गतिनं सप्तम्यां नरकावनौ / गति भाविनी क्केति पृष्टः षष्ठयामवक् प्रभुः // 561 // ततश्चकथभिमानी सः कल्पयित्वा चतुर्दश / रत्नानि भरतं जेतुं तमिस्राद्वारमाश्रयत् // 562 / कपाटपाटंनाय द्रागुद्यच्छन् भस्मसात्कृतः। कृतमालसुरेणाऽऽशु नरकं षष्ठमासदत् / 563 / उदायी राज्यमासाद्य जैनधर्मोन्नतिं दधौ / सालङ्कारां जैनचैत्यैर्महीं चक्रे दिवस्पृशम् / 564 / दाननिदानैः सौख्यानां तपसा जपसाधनात् / उन्मीलच्छीललीलाभिर्भावना भावनाटनात् // 565 // ल. त्रि. 43