________________ 81 महोपाध्यायश्रीमन्मेघविजयविरचितम् / श्री ऋषभदेवमरुदेवी [ च तत्पत्नी ] नारीदेहः सुवर्णभाः / सपाद्धनुःपञ्चशती देहमानमिहेरितम् // 113 // प्रथमस्य द्वितीयस्य दण्डनीतिहकारवाक् / तृतीयतूर्यसमये हः स्वल्पे बहुले च मः // 114 // पश्चमस्याऽपि षष्ठस्य समये हमधिक्त्रयः / दण्डाः स्वल्पेतरोत्कृष्टाऽपराधेषु च सप्तमे // 115 // सर्वेषात्मद्यसंस्थानं संहननं मुनीरितम् / स्त्रियः सर्वा रक्त[धवाः] प्रियङ्गुद्युतयः समाः // 116 / / अथाषाढासिते पक्षे चतुर्थ्यामवतारतः / प्रभोजनन्यपश्यत् सा स्वमान् चतुर्दश क्रमात् / / 117 // गजर्षभौ सिंहलक्ष्म्यभिषेकौ सक् शशी रविः / __ध्वजः कुम्भ: सरः सिन्धुर्विमानं मणयः शुचिः // 118 // तत्रापि पूर्व वृषभदर्शनं तस्य लाञ्छनात् / भरते धर्मवीजस्य चपनादभितोऽन्वयात् // 119 // गत्वा राज्ञः समीपे साऽपृच्छत् तेषां फलोदयम् / राजाऽप्याख्यदतो देवि पुत्रस्तव भविष्यति // 120 // ग्रीष्मतोंः प्रथमे मासे पक्षेऽप्याद्येऽष्टमी तिथौ / प्रथमस्य प्रभोजन्मार्द्धरात्रि परतोऽभवत् // 121 / / ऋषभ१ प्रथमो राजार प्रथमो [ निष्परिग्रहः ]3 / __ प्रथमस्तीर्थकृत्४ पूर्वः केवली५ नाम पञ्चधा // 122 // सुरसञ्चारितागुष्ठामृतपायी स शैशवे / ततः परं देवकुरोः फलानि बुभुजे प्रभुः // 123 // दीक्षावधिविधिरयं दक्षः शक्रो जिनान्वयम् / चिकीर्षुरिक्षुमादाय पुरस्तादर्हतः स्थितः // 124 // पितुरङ्कस्थितः स्वामी करे प्रासारयत्तदा / तद् विमृश्य हरिश्चक्रे वंशमिक्ष्वाकुसंज्ञया // 125 // ततो बहु काश्यपस्येक्षुरसस्याधिपानतः / गोत्रं काश्यपमित्यासीत् काश्यप्यां मुख्यसम्भवात् // 126 // . इतश्च कश्चिद् युगली मुक्त्वा युग्मं तरोरधः / रिरंसुर्यद् बहिर्गृहं ययौ वायुस्तदा गतः // 127 // . फलपातात्तरोः पुत्रो मृतः कालानुभावतः / बालिका वद्धिता ताभ्यां पितृभ्यां स्वर्गतौ गतौ॥१२८॥ तां दिव्यरूपां तारुण्ये भ्रमन्तीं वीक्ष्य युग्मिनः / . राज्ञे निवेदयामासू रक्षिता नाभिनाऽपि सा // 129 // नाम्ना सुनंदा ऋषभपत्नीयं हि भविष्यति / शक्रः पुनर्विवाहार्थमहीनं कृतवान् महम् / / 130 // वरकार्य सुराश्चक्रुर्वधूकार्य सुराङ्गनाः। जाते विवाहे सुनन्दा सुमङ्गला विरेजतुः / / 131 // ताभ्यां विषयसौख्यानि भुञ्जानस्य प्रभोरभूत् / सुमङ्गलायां प्रागबाहुर्भरतः प्रथमः सुतः।१३२।