________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [. तृतीयारकपर्यन्ते पल्योपमाष्टमांशके / शेषे कुलकरा आसन् गङ्गासिन्ध्वोस्तदन्तरे // 95 // विदेहे पश्चिमे मेरोर्वणिजौ वसतः क्वचित् / ___एकः सागरचन्द्राख्यः प्रकृत्या सरलः सुखी // 96 // अनङ्गनामा द्वितीयः प्रकृत्या वक्रदुर्मतिः / तयोमिथः प्रीतिरभूदाकृत्यादिगुणाश्रयात् // 97 // सागरेण वने काचित् कुमारी पथि रक्षिता / मार्यमाणा तस्करैः साऽलङ्कारग्रहणाशया // 98 // तयाऽपि सोऽनुरागेण पित्रादेशाद् विवाहितः / अनङ्गेन कदाप्येषा प्रार्थिता रहसि स्थिता // 99 // तया निर्भत्सितः सत्या स पृष्टः सागरेन्दुना / विमनास्त्वं कुतो भ्रातस्तेनोक्तं प्रार्थनात् स्त्रियाः // 10 // सागरस्तु तदाऽऽकर्ण्य स्त्रियां मित्रे तथा वात् / पूर्ववत् प्रीतिमाधत्त क्रमात् तेऽथ मृतास्त्रयः // 101 // 'स्त्रीपुंसौ युग्मितां प्राप्तौ मायावी हस्तितां गतः / ... जातिस्मृतिमगाद्धस्ती दृष्ट्वा युगलिनं च तम् // 102 // स्वस्कन्धे तं समारोप्य चचाल स मतङ्गजः / तेनायं ख्यातिमापनो नाम्ना विमलवाहनः // 103 // कालानुभावात् कल्पद्रुस्वभावपरिवर्तनम् / पूर्व ते पृथिवीकाया स्युर्वनस्पतयस्ततः // 10 // ऋषिदत्ताचरित्रादौ कल्पद्रबीजवापनम् / प्रोक्तं तद् घटते चैवं पूर्वाम्नायादिदं मतम् // 105 // ततो विशेषात् तद्धानौ पूर्वः कुलकरो द्रुमात् / विभज्य दत्तवान् दण्डं हकारश्चापराधिनि॥१०६॥ भार्या कुलकृतश्चन्द्रयशा देहोच्चता पुनः / धनुर्नवशती वर्णः सौवर्णः स्त्रीप्रियङ्गुवत् // 107 // चक्षुष्मतश्चन्द्रकान्ता धनुरष्टशती तनुः / प्रियङ्गवर्णः प्रथमं भवेत् संहननं पुनः॥१०८॥ यशस्विनः सरूपाया धनुःसप्तशती तनुः / प्रियङ्गवर्णः पतिवत् स्त्रीणां संहननं मतम् // 109 // अमिचन्द्रप्रतिरूपे] धनुषां सार्धषट्शती / श्वेतवर्णश्च संस्थानं सार्थेशं प्रथमं मतम् // 110 // प्रसेनजिद्वधूचक्षुष्कान्ताङ्गे चापषट्शती / श्यामवर्णो मरुदेवः षष्ठो कुलकरोऽभवत् // 111 // श्रीप्रसेनप्रिया सार्द्धधनुःपञ्चशती तनुः / / . स्वर्णवर्णः पुनर्नामिः कुलकृत् प्रथम [ सप्तम] स्ततः // 112 //