________________ 322 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीवर्धमानमार्गे स्वभृत्यसामन्तशतपञ्चकदीक्षणात् / नन्तुं वीरं राजगृहे गीतार्थीभूय चागतः // 312 // मङ्खलिनियति न्यस्यन् पौरुषं विनिवर्तयन् / स्वैरं निवृत्तिवृत्तिभ्यां क्रियापक्षाश्रयाज्जितः // 313 // साधुनियत्या चौरोऽपि तयैव हन्यते कथम् / एवमीश्वरकर्तृत्वेऽप्येतदेव निदर्शनम् // 314 // हस्तितापसबद्धोऽपि हस्ती निगडभेदतः / नत्वाऽऽर्द्रकं मुनि लोके लोकमाने वनं ययौ / 315 / ब्राह्मणात् कुण्डनगरे वर्द्धमाने समीयुषि / अगादृषभदत्तोऽपि देवानन्दादिसंयुतः // 316 // देवानन्दा स्तन्यभरं क्षरन्तीं वीक्ष्य गौतमः / __अपृच्छत् कारणं प्रोचे विभुमें जननी त्विति // 317 // देशनामाहतीं श्रुत्वा लात्वा दीक्षां तपोबलात् / केवलज्ञानमासाद्य दम्पती शिवमीयतुः / 318 // प्रभौ क्षत्रियकुण्डस्थे जमालिभगिनीसुतः। जामाता चाऽर्हतगिरा विरज्य व्रतमग्रहीत् / 319 / स्वपुत्री स्त्रीसहस्रेण श्रमणी प्रियदर्शना / चन्दनानुगता चक्रे तपः षष्ठष्टमादिकम् // 320 // अननुज्ञातवान् देशे जमालिविहरन् भुवि / ___ अनास्तीर्ण संस्तरन्तं आस्तीर्णमिति चाश्रितः // 321 // क्रियमाणं कृतमिति मिथ्येति भगवद्वचः / मन्यमानः स्वसंसारं वर्द्धयामास मन्दधीः / 322 / प्रारब्धे वस्तुकरणे किं करोषीति पृच्छया / घटं करोमीति गिरा क्रियमाणं कृतं स्फुटम् / 323 / बोधितुं भगवत्पुत्रीं कम्बलेऽङ्गारपातनात् / दग्धोऽयमिति चाऽऽचरख्यौ सा ढङ्कस्तां न्यवारयत् // 324 // दह्यमानो दग्ध इति प्रमाणं वाक्यमर्हतः / __भवन्मतेऽन्यथोदिते स्यामिथ्यादुष्कृतागमः // 325 // अनालोच्य जमालिः स लान्तके किल्बिषी सुरः।। त्रयोदश सागरायुश्युत्वा भवान् भ्रमिष्यति // 326 // साकेते गुह्यकः सम्यग् हन्ति चित्रकरं रुषा / सुरप्रियो न चेल्लोकं मारयेदिति निश्चयः / 327 / नष्टे चित्रकरे भीत्या शेषं रक्षितवान् नृपः। एकदा स्थविरासूनोः पत्न्यां वारः समाययौ // 328 // कौशाम्ब्या आगतश्चित्रदारकः शौचपूर्वकम् / तं यक्षं चित्रयामास तुष्टस्स च वरं ददौ // 329 //