________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् 321 श्राद्धधर्मी सोऽभयोऽभून्मेघो दीक्षामुपाददे / नन्दिषेणः प्रवत्राज वार्यमाणोऽपि नाकिभिः // 296 // धर्मलाभं वदन वेश्यागिरा भग्नव्रतः स्थितः / ___ मेघोऽपि रात्रौ विमनाः प्राग्भवस्मरणात् स्थिरः // 297 // एकदा चेल्लणा वीरं नत्वा मार्गस्थितं स्थिरम् / मुनि शीतसहं रात्रौ सस्मार कुपितो नृपः / 298 // स्वाम्यादेशात् कोपशमेऽभयं प्राह ददाह किम् / अन्तःपुरं नेति वाचा तुष्टस्तुष्टाव चाऽभयम् // 299 // एकस्तम्भं गृहं देवश्चक्रे तवृक्षरक्षणे / सर्व कफलं चाधाद् वनमाराधितः सुरः // 30 // विद्यया तत्फलग्राही चाण्डालोऽज्ञायि वार्तया / तस्माद् विद्यां नृपो लेभे सिंहासने निवेश्य तम् // 301 // दुर्गन्धां पतितां कन्यां दृष्ट्वा पप्रच्छ तद्भवान् / शालिग्रामे धनमित्रपुत्री धनवती ह्यसौ // 302 // साधुमालिन्यनिन्दायां दुर्गन्धा तव कामिनी / भूत्वा त्वामश्ववत् पृष्ठेऽधिरोहेण रमिष्यते // 303 // आभीर्या वद्धिता बाल्ये तारूण्ये रूपभाग् भृशम् / मुद्राया वसने बन्धात् श्रेणिकस्तामुवाह च // 304 / / तया जितो नृपश्चाश्वीभूय पृष्ठे बभार ताम् / हसँस्तयोक्तः किमिति पृष्टोऽभाषिष्ट तां कथाम् // 305 // सा हिया भगवत्पार्श्वे दीक्षां लेभे तदाऽगमत् / आर्द्रदेशादापुरादानामा मुनिवरः / 306 / सा प्रबुद्धोऽभयमैत्र्या प्रेषिताजिनबिम्बतः / स प्राग्भवे तृतीयेऽतः कुटम्बी मगधेऽभवत् / 307 / सामायिकोऽस्य स्त्री बन्धुमती द्वावपि दीक्षिती / . श्रमणी तां पतिर्दृष्ट्वाऽन्यदाऽऽसीज्जागरस्मरः // 308 // तया प्रपन्नेऽनशने पत्याऽप्यनशनं कृतम् / देवत्वमाप्यानामा श्रीमती बन्धुमत्यभूत् / 309 / उद्दिश्याभयमागच्छन् वसन्तपुरचैत्यगः / श्रीमत्या पतिर्बुद्धयांहिग्रहणेन वृतस्तदा // 310 // गृही द्वादशवर्षान्ते पुत्रस्य तन्तुवेष्टनात् / पुनदिशवत्सर्या व्रतपर्यायमाश्रयत् // 311 // ल. त्रि. 41