________________ 320 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवर्धमान जन्यस्य सुखदुःखादेरत्यन्ताभावतो भवेत् / निर्वाणं दीपदृष्टान्ताज्ज्ञेयाऽन्यत्रोत्तराणि च // 279 // ईयुः समवसरणे ते चैकादश वाडवाः / पूर्वोक्तोत्तरदानेनार्हतः सर्वे पराजिताः // 280 // प्रव्रज्यां जगृहुजैनी सह छात्रास्तदा समे / इन्द्रेणानीयत स्थालश्चन्दनादिप्रपूरितः // 281 / / मुष्टित्रयेण वासस्य क्षेपं चक्रे जिनः स्वयम् / त्रिपदीधारणादेकादशाऽभूवन् गणेश्वराः / 282 / स्वामी कृतगणेशैकादशकः श्रेणिकेन सः / पृष्टः प्राह भवे पूर्वे सुमङ्गलनृपोऽभवः // 283 // जितशत्रुसुतोऽन्येद्युस्तेनाहस्यत मन्त्रिमः / ___ कुरूपः सेनको नाम्ना कृतं तेनोष्ट्रिकातपः // 284 // पारणार्थ प्रार्थितोऽयं तापसो मासिकव्रती / सुमङ्गलेन रोगाल् विस्मृतः पारणादिने / 285 / वानमन्तरदेवोऽभून्निदानात्तापसः क्रुधा / राजाऽपि तामेव गतिं प्रापितस्तत्प्रशंसया / 286 / इतो राजगृहे नागवणिजः सुलसा प्रिया / सा श्रावकत्वाच्छक्रेण वर्णिता सुरपर्षदि // 287 // परीक्षिता साधुरूपसुरेण तैलमार्गणात् / अनुतापात् सुरस्तुष्टो द्वात्रिंशद् गुटिका ददौ / 288 / तासां प्रसादादनया प्रसूतास्तत् प्रमाः सुताः / जीवितादेव सानिध्यात् श्रेणिकस्यानुजीविनः // 289 // . . पूर्व देशान्तरेऽनेन नन्दा भद्रात्मजा पुनः / __ व्यूढा स्वयं स्थितो राज्ये पित्रा दत्ते परीक्षया // 290 // नन्दापुत्रोऽभयाख्यानः परीक्ष्य सचिवः कृतः / तेन बुद्धया चेल्लणा स्त्री श्रेणिकेन विवाहिता // 291 // सुरङ्गायां सौलसेया द्वात्रिंशद् युद्धतो मृताः / तद्वैराग्येण सुज्येष्ठा प्रात्राजीत् सुव्रतान्तिके / 292 चेल्लणायां कोणिकोऽभूज्जीवः सेनकयोगिनः / धारिण्यां तनयो मेघो गजस्वप्नादजायत // 293 // इतश्चेभ्यद्विजाद् भोज्यं प्राप्यादान्मुनये वणिग् / भृत्योऽभवन्नन्दिषेणो द्विजः सेचनकद्विपः // 294 // वशीभूतो नन्दिषेणाजातिस्मरणवान् गजः / जिनागमेऽन्यदा लेभे सम्यक्त्वं श्रेणिको नृपः // 295 //