________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् श्रीअपापामहापुर्या श्रीवीरः समवासरत् / देवदानवमानां पर्षदो द्वादशाऽमिलन् / 264 / चतुःसहस्री विप्राणां चतुःशत्याऽधिका क्रतौ / तस्यामेकादशाग्रण्यः इन्द्रभूत्यादयः समे // 265 // एषां संशय एकैको जीवोऽन्योऽस्ति न वाऽऽदिमे, / . जीवाद् भिन्नं कर्म न वा, तज्जीवस्तच्छरीरकम्, // 266 // एकं ब्रह्मैव सर्वत्र पृथग् भूतेष्वसम्भवः / पुमान् पुंस्त्वं स्त्रियः स्त्रीत्वं लभन्ते नान्यथा भवम्, // 267 // कर्मणां बन्धनं मोक्षोऽरूपित्वादस्ति नास्ति वा, / देवाः सन्ति न वा, नीचैर्नारकाः सन्त्यमी न वा, // 268 // पुण्यं पापं चास्ति नो वा. परलोके गतिर्न वा,.। निर्वाणे शाश्वतं सुखं जीवस्याऽस्ति न वेत्यमी,, // 269 // दकारत्रय विज्जीवों युक्त्या तन्वाश्च भोगतः / : एवं जीवप्रसिद्धथैवाऽजीवसिद्धिविपक्षतः२ // 270 // . स्वापे शरीराचेष्टायां स्वप्नाजीवस्य भिन्नता / शुभाशुभारोग्यरोगभेदाद् ब्रह्मणि नैकता४ // 271 // एकत्राऽपि भवे बाल्यवयोवार्द्धकदर्शनात् / / बलभेदाल्लिङ्गभेदः साधनीयोऽन्यजन्मनि५ // 272 // बुद्धेर्नीरूपता स्पष्टा गुणे द्रव्याश्रयाद् ध्रुवम् / - तां बुद्धिं कुरुते मयं सद्योऽवैशबभृत् कुतः // 273 // सूर्यादयोऽपि प्रत्यक्षा देवा न मानवा नवाः / . दुःखान्यनुभवन् वक्ति नारकोऽस्मीति यद् वचः // 274 // उपमानविधावत्रोपमेयप्रतिपादनात् / उपमाया भवेत् काऽपि मुख्योऽर्थ इति साधनात् / 275 / सन्त्येव नारका यद्वा धर्माद् देवा अधर्मतः / नारकाः परमां पीडां सहन्ते हन्त नित्यशः // 276 // दानादिपुण्यमध्यक्षं हिंसादिपातकं तथा / सुखासुखे राज्ञो विनयाऽविनयादितः // 277 // स्वोंको नरलोकश्चेत् परौ स्वर्नारको तदा / स्वत्वं परत्वानुबद्धं भवेद् विषयभेदतः // 278 //