________________ 318 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवर्धमानकालान्निवृत्तौ भिक्षूणां भावतो राजपुत्रिका / दासत्वमाप्ता रुदती मुण्डिता निगडान्विता // 247 / / साष्टमा यदि दत्ते मे पारणा स्यात् तदा मम / इत्यभिग्रहवानहन् कौशाम्ब्यामाययौ क्रमात् // 248 // दधिवाहनधारिण्योस्तस्यां वसुमती सुता। धनेन रक्षिता दास्ये मूलया निगडे धृता / 249 / क्षुत्क्षामा मुण्डिता साश्रुः साष्टमा माषदानतः / षण्मास्या पश्चदिवसोनया तमप्यपूरयत् // 250 / / सिद्धार्थेन हतो बालवणिग् देवं जिघांसुकः / चम्पायां स्वामिदत्तशालायां तस्थिवान् जिनः // 251 // पूर्णभद्रमणिभद्रौ तनुतः प्रभुसेवनम् / वीक्ष्यात्मा कोऽस्ति तत्पृष्टो योऽहमित्यूचिवान् जिनः // 252 // पुनर्गोपेन रुष्टेन प्रक्षिप्ते कर्णयोः प्रभोः / शलाके कण्टकयुते प्राक्शय्यापालदेहिना // 253 // सिद्धार्थवणिजा वैद्यखरकेन च यत्नतः / निःशल्ये विहिते वीरे जज्ञे स्वर्गाप्तिरेतयोः / 254 / स्वल्पोपसर्गः शीतस्य कटपूतनया कृतः / मध्यमः कालचक्रस्य कर्णशल्योधृतौ महान् / 255 / चातुर्मास्यतपोऽस्यासीन्नवशश्च द्विमासिकम् / षट्कृत्वो द्वादश तथा मासिकान्यपि जज्ञिरे // 256 / द्वासप्ततिः पाक्षिकानि एकं पाण्मासिकं तपः / त्रिमासिकद्वयं सार्द्धमासद्वितयकं तथा // 257 // द्विःसार्द्धमासिकं भद्रप्रतिमा सर्वतः परा। महाभद्रप्रतिमा च चतुरष्टदशद्विकम् // 258 // सैकोनत्रिंशद् द्विशती षष्ठानामहतस्तपः / नित्यभक्तं न कदापि जघन्यं षष्ठभक्तिकम् / 259 / सर्व चतुर्विधाहारप्रत्याख्यानं जिनेशितुः / दिवसत्रिशती सैकोनपश्चाशत् तु पारणा // 260 // वर्षद्वादशकं मासाः षट्पक्षसहितार्हतः / छाझस्थ्यमभवन निद्रासमयोऽन्तर्मुहूर्तकम् // 261 // राधशुक्लदशम्यां भे हस्तोत्तरे विधौ स्थिते / केवलज्ञानमुत्पेदे क्षित्याऽऽवरणकर्मणाम् // 262 // लोकाचर्यभवाद् भावाद् देशनायां न कोऽप्यभूत् / यः सृजेद् भावनां धर्मे सम्यक्त्वाणुव्रतादिषु // 263 //